अध्यायः 088

सपत्नीभ्रातृकस्य युधिष्ठिरस्य शकुनिना पराजयः ॥ 1 ॥

शकुनिरुवाच ॥ 001
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर । 001a
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ 001c
युधिष्ठिर उवाच ॥ 002
मम वित्तमसङ्ख्येयं यदहं वेद सौबल । 002a
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥ 002c
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम् । 003a
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः ॥ 003c
मध्यं चैव परार्धं च सपरं चात्र पण्यताम् । 004a
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ 004c
वैशम्पायन उवाच ॥ 005
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 005a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 005c
युधिष्ठिर उवाच ॥ 006
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् । 006a
यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल । 006c
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया ॥ 006e
वैशम्पायन उवाच ॥ 007
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 007a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 007c
युधिष्ठिर उवाच ॥ 008
पुरं जनपदो भूमिरब्राह्मणधनैः सह । 008a
अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम । 008c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 008e
वैशम्पायन उवाच ॥ 009
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 009a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 009c
युधिष्ठिर उवाच ॥ 010
राजपुत्रा इमे राजञ्छोभन्ते यैर्विभूषिताः । 010a
कुण्डलानि च निष्काश्च सर्वं राजविभूषणम् । 010c
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ 010e
वैशम्पायन उवाच ॥ 011
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 011a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 011c
युधिष्ठिर उवाच ॥ 012
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः । 012a
नकुलो ग्लह एवैको विद्ध्येतन्मम तद्धनम् ॥ 012c
शकुनिरुवाच । 013
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर । 013a
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे ॥ 013c
वैशम्पायन उवाच ॥ 014
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत । 014a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 014c
युधिष्ठिर उवाच ॥ 015
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च । 015a
अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्प्रियेण ॥ 015c
वैशम्पायन उवाच ॥ 016
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 016a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 016c
शकुनिरुवाच ॥ 017
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया । 017a
गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ ॥ 017c
युधिष्ठिर उवाच । 018
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् । 018a
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥ 018c
शकुनिरुवाच ॥ 019
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति । 019a
ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ ॥ 019c
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर । 020a
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥ 020c
युधिष्ठिर उवाच ॥ 021
यो नः सङ्ख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी । 021a
अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन ॥ 021c
वैशम्पायन उवाच ॥ 022
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 022a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 022c
शकुनिरुवाच । 023
अयं मया पाण्डवानां धनुर्धरः पराजितः पाण्डवः सव्यसाची । 023a
भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम् ॥ 023c
युधिष्ठिर उवाच ॥ 024
यो नो नेता यो युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः । 024a
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी ॥ 024c
बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः । 025a
अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन् ॥ 025c
वैशम्पायन उवाच ॥ 026
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 026a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 026c
शकुनिरुवाच । 027
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् । 027a
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ 027c
युधिष्ठिर उवाच ॥ 028
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा । 028a
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते ॥ 028c
वैशम्पायन उवाच ॥ 029
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 029a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 029c
शकुनिरुवाच । 030
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः । 030a
शिष्टे सति धने राजन्पाप आत्मपराजयः ॥ 030c
वैशम्पायन उवाच ॥ 031
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान् । 031a
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक् ॥ 031c
शकुनिरुवाच ॥ 032
अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः । 032a
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥ 032c
युधिष्ठिर उवाच ॥ 033
नैव ह्रस्वा न महती न कृशा नातिरोहिणी । 033a
नीलकुञ्चितकेशी च तया दीव्याम्यहं त्वया ॥ 033c
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । 034a
शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥ 034c
तथैव स्यादानुशंस्यात्तथा स्याद्रूपसम्पदा । 035a
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥ 035c
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम् । 036a
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम् ॥ 036c
चरमं संविशति या प्रथमं प्रतिबुध्यते । 037a
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ 037c
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च । 038a
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा ॥ 038c
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया । 039a
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥ 039c
वैशम्पायन उवाच ॥ 040
एवमुक्ते तु वचने धर्मराजेन धीमता । 040a
धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥ 040c
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे शुचः । 041a
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥ 041c
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत् । 042a
आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्निव पन्नगः ॥ 042c
'बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः । 043a
द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः । 043c
आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः' ॥ 043e
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः । 044a
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥ 044c
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः । 045a
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम् ॥ 045c
सौबलस्त्वभिधायैवं जितकाशी मदोत्कटः । 046a
जितमित्येव तानक्षान्पुररेवान्वपद्यत ॥ ॥ 046c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टाशीतितमोऽध्यायः ॥ 88 ॥

2-88-6 पर्णाशा नदी ॥ 2-88-23 कैतवं कितवेभ्य आहर्तव्यं धनम् ॥ 2-88-46 जितकाशी जयशोभी ॥