अध्यायः 085
भीष्मद्रोणादीनां द्यूतसभाप्रवेशः ॥ 1 ॥ द्यूतीपक्रमः ॥ 2 ॥ युधिष्ठिरेण पणीकृतानां सर्ववस्तूनां शकुनिना अपहारः ॥ 3 ॥
वैशम्पायन उवाच ॥ 001
उपोह्यमाने द्यूते तु राजानः सर्व एव ते । 001a
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥ 001c
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः । 002a
नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत ॥ 002c
ते द्वन्द्वशः पृथक्चैव सिंहग्रीवा महौजसः । 003a
सिंहासनानि भूरीणी विचित्राणि च भेजिरे ॥ 003c
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः । 004a
देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥ 004c
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः । 005a
प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ॥ 005c
युधिष्ठिर उवाच ॥ 006
अयं बहुधनो राजन्सागरावर्तसम्भवः । 006a
मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥ 006c
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव । 007a
येन मां त्वं महाराज धनेन प्रतिदीव्यसे ॥ 007c
दुर्योधन उवाच ॥ 008
सन्ति मे मणयश्चैव धनानि सुबहूनि च । 008a
मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम् ॥ 008c
वैशम्पायन उवाच ॥ 009
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् । 009a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 009c
युधिष्ठिर उवाच ॥ 010
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे । 010a
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम् ॥ 010c
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः । 011a
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः । 011c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 011e
वैशम्पायन उवाच ॥ 012
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम् । 012a
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥ 012c
युधिष्ठिर उवाच ॥ 013
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः । 013a
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥ 013c
संह्रादनो राजरथो य इहास्मानुपावहत् । 014a
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥ 014c
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसम्मताः । 015a
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन् । 015c
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ 015e
वैशम्पायन उवाच ॥ 016
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 016a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 016c
युधिष्ठिर उवाच ॥ 017
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः । 017a
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ॥ 017c
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः । 018a
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः ॥ 018c
अनुसेवां चरन्तीमाः कुशला नृत्तसामसु । 019a
स्नातकानाममात्यानां राज्ञां च मम शासनात् । 019c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 019e
वैशम्पायन उवाच ॥ 020
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 020a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 020c
युधिष्ठिर उवाच । 021
एतावन्ति च दासानां सहस्राण्युत सन्ति मे । 021a
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥ 021c
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः । 022a
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत । 022c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 022e
वैशम्पायन उवाच ॥ 023
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 023a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 023c
युधिष्ठिर उवाच ॥ 024
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल । 024a
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥ 024c
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि । 025a
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥ 025c
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः । 026a
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 026c
वैशम्पायन उवाच ॥ 027
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः । 027a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 027c
युधिष्ठिर उवाच ॥ 028
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः । 028a
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ॥ 028c
एकैको ह्यत्र लभते सहस्रपरमां भृतिम् । 029a
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् । 029c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 029e
वैशम्पायन उवाच ॥ 030
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान् । 030a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 030c
युधिष्ठिर उवाच ॥ 031
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः । 031a
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ॥ 031c
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः । 032a
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 032c
वैशम्पायन उवाच ॥ 033
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 033a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 033c
युधिष्ठिर उवाच ॥ 034
रथानां शकटानां च श्रेष्ठानां चायुतानि मे । 034a
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा ॥ 034c
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः । 035a
यथा समुदिता वीराः सर्वे वीरपराक्रमाः ॥ 035c
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् । 036a
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः । 036c
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 036e
वैशम्पायन उवाच ॥ 037
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 037a
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 037c
युधिष्ठिर उवाच । 038
ताम्रलोहैः परिवृता निधयो ये चतुः शताः । 038a
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ॥ 038c
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत । 039a
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया ॥ 039c
वैशम्पायन उवाच ॥ 040
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः । 040a
जितमित्येव शकुनिर्युधिष्ठिरमभाषतः ॥ ॥ 040c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥
2-85-8 दुरोदरं पणम् ॥ 2-85-11 भाण्डिन्यो मञ्जूषाः ॥ 2-85-17 कम्बवः शङ्खवलयानि । निष्को वक्षोभूषणम् ॥ 2-85-18 चतुष्षष्टिकलासु विशारदाः ॥ 2-85-19 नृत्तसामसु नर्तने गीतिविशेषेषु च ॥ 2-85-24 कृतापीडाः कृतभूषणाः ॥ 2-85-25 ईषा लाङ्गलदण्डः । अष्टकरेणवः अष्टहस्तिनीकाः ॥