अध्यायः 081

दुर्योधनेन धृतराष्ट्रोक्तिप्रतिकूलभाषणम् ॥ 1 ॥

दुर्योधन उवाच ॥ 001
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः । 001a
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव ॥ 001c
जानन्वै मोहयति मां नावि नौरिव संयता । 002a
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ॥ 002c
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता । 003a
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः ॥ 003c
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति । 004a
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ 004c
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः । 005a
प्रतिपन्नान्स्वकार्येषु सम्मोहयसि नो भृशम् ॥ 005c
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः । 006a
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि ॥ 006c
क्षत्रियस्य महाराज जये वृत्तिः समाहिता । 007a
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा ॥ 007c
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः । 008a
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ ॥ 008c
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते । 009a
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥ 009c
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका । 010a
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप ॥ 010c
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् । 011a
समुच्छ्रये यो यतते स राजन्परमो नयः ॥ 011c
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा । 012a
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ॥ 012c
अद्रोहसमयं कृत्वा चिच्छेद नमुचेः शिरः । 013a
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी ॥ 013c
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव । 014a
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 014c
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते । 015a
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ॥ 015c
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते । 016a
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ॥ 016c
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः । 017a
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥ 017c
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत । 018a
एष भारः सत्ववतां न यः शिरसि धिष्ठितः ॥ 018c
जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते । 019a
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः ॥ 019c
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति । 020a
अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि ॥ 020c
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते । 021a
वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः ॥ ॥ 021c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

2-81-3 कृत्यं इदानीं कर्तव्यम् ॥ 2-81-14 अप्रवासिनं तीर्थाटनादिरहितम् ॥ 2-81-15 साधारणी तुल्या वृत्तिर्जीविका । एकामिषत्वमित्यर्थः ॥