अध्यायः 078
दुर्योधनेन धृतराष्ट्रसमीपे युधिष्ठिराय नानादेशीयराजोपाहृतोपायनवर्णनम् ॥ 1 ॥
दुर्योधन उवाच ॥ 001
यन्मया पाण्डवेयानां दृष्टं तच्छृणु भारत । 001a
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥ 001c
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम् । 002a
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत ॥ 002c
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान् । 003a
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून् ॥ 003c
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् । 004a
उष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः ॥ 004c
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम् । 005a
वसातयोऽन्यद्द्रव्यं च द्वारि तस्यावतस्थिरे ॥ 005c
कमण्डलूनुपादाय जातरूपमयाञ्छिवान् । 006a
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम् । 006c
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः । 007a
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत् ॥ 007c
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः । 008a
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते ॥ 008c
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने । 009a
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम् ॥ 009c
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा । 010a
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा ॥ 010c
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः । 011a
योऽनादनेऽपि नदति स ननादाधिकं तदा ॥ 011c
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः स्वतेजसा । 012a
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥ 012c
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः । 013a
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥ 013c
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः । 014a
शताननडुहान्पञ्च द्विजमुख्याय भारत ॥ 014c
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे । 015a
कुविन्देन हिरण्यं च वासांसि विविधानि च ॥ 015c
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु । 016a
बलिं च कुत्स्नमादाय पाण्डवायाभ्युपागमत् ॥ 016c
यवना हयानुपादाय पार्वतीयान्मनोजवान् । 017a
आसनानि महार्हाणि कम्बलांश्च महाधनान् ॥ 017c
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान् । 018a
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे ॥ 018c
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम् । 019a
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः ॥ 019c
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप । 020a
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम् ॥ 020c
औदकानि सरत्नानि बलिं चादाय भारत । 021a
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् ॥ 021c
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम् । 022a
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च ॥ 022c
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः । 023a
चोलश्च केरलश्चोभौ ददतुः पाण्डवाय वै ॥ 023c
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषिताः । 024a
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश ॥ 024c
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् । 025a
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान् ॥ 025c
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान् । 026a
जातरूपपरिष्कारान्मणिरत्नविभूषितान् ॥ 026c
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव । 027a
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥ 027c
अवन्तिराजो रत्नानि विविधानि सहस्रशः । 028a
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम् ॥ 028c
दासीनामयुतं चापि बलिमादाय भारत । 029a
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते ॥ 029c
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान् । 030a
वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च । 030c
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत् ॥ 030e
काशिराजेन हृष्टेन बली राज्ञि निवेदितः । 031a
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम् ॥ 031c
अयुतं च नदीजानां हयानां हेममालिनाम् । 032a
विविधानि च रत्नानि काशिराजो बलिं ददौ ॥ 032c
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः । 033a
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश ॥ 033c
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह । 034a
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम् ॥ 034c
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम् । 035a
शतं दासीसहस्राणि कार्पासिकनिवासिनाम् ॥ 035c
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः । 036a
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ ॥ 036c
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ । 037a
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः ॥ 037c
उपायनं यदा दद्युस्तदा द्वारमलभ्यत । 038a
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये ॥ 038c
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः । 039a
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह ॥ 039c
बलिं विविधमादाय रत्नानि विविधानि च । 040a
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु ॥ 040c
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः । 041a
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली ॥ 041c
यवनैः सहितो राजा भगदत्तो महाबलः । 042a
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः ॥ 042c
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः । 043a
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन् ॥ 043c
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा । 044a
द्व्यक्षांस्त्र्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान् ॥ 044c
औष्णीषानहयांश्चैव बाहुकान्पुरुषादकान् । 045a
एकपादांश्च तत्राहमपश्यं द्वारि वारितान् ॥ 045c
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु । 046a
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान् ॥ 046c
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि । 047a
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून् ॥ 047c
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः । 048a
सिंहलश्च तदा राजा परिगृह्य धनं बहु ॥ 048c
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत् । 049a
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः ॥ 049c
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः । 050a
शतं दासीसहस्राणां कम्बलांश्च सहस्रशः । 050c
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः ॥ 050e
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः । 051a
कालेयकं च रूप्यं च परिगृह्य परिच्छदान् ॥ 051c
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च । 052a
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल ॥ 052c
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे । 053a
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः ॥ 053c
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः । 054a
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः ॥ 054c
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः । 055a
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान् ॥ 055c
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा । 056a
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम् ॥ 056c
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत । 057a
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा ॥ 057c
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः । 058a
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा ॥ 058c
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः । 059a
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान् ॥ 059c
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः । 060a
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः ॥ 060c
बलादूरुगमा राजन्गणितं चार्बुदं मया । 061a
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसन्निभम् ॥ 061c
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान् । 062a
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥ 062c
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः । 063a
आसनानि महार्हाणि यानानि शयनानि च ॥ 063c
मणिकाञ्चनचित्राणि गजदन्तमयानि च । 064a
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान् ॥ 064c
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान् । 065a
विचित्रान्सपरिस्तोमांश्चापानि विविधानि च ॥ 065c
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च । 066a
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः ॥ 066c
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः । 067a
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च ॥ 067c
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च । 068a
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा ॥ 068c
अन्यान्बहुविधान्राजन्नराः सागरमाश्रिताः । 069a
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु ॥ 069c
मालवाश्च ततो राजन्रत्नानि विविधानि च । 070a
गोधूमानां च राजेन्द्र द्रोणानां कोटिसम्मितम् ॥ 070c
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः । 071a
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम् ॥ 071c
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः । 072a
तैलकुम्भान्महाराज द्रोणानामयुतानि च ॥ 072c
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः । 073a
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः ॥ 073c
अन्ये च पार्थिवा राजन्नानादेशसमागताः । 074a
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु ॥ 074c
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते । 075a
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः ॥ 075c
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः । 076a
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा ॥ 076c
इमांश्च दायान्विविधान्निबोध मम पार्थिव । 077a
यज्ञार्थे राजभिर्दत्तान्महतो धनसञ्चयान् ॥ 077c
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् । 078a
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥ 078c
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः । 079a
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः ॥ 079c
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः । 080a
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः ॥ 080c
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान् । 081a
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु ॥ 081c
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः । 082a
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥ 082c
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः । 083a
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः ॥ 083c
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु । 084a
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये ॥ 084c
फलमूलाशना ये च किराताश्चर्मवाससः । 085a
चन्दनागरुमुख्यानि महार्हान्कम्बलानि च ॥ 085c
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च । 086a
कैरातकीनामयुतं दासीनां च विशाम्पते ॥ 086c
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः । 087a
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् ॥ 087c
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारितः । 088a
कापव्या दरदा दर्वाः शूरा वै यमकास्तथा ॥ 088c
औदुम्बरा दुर्विभागा द्वारि दिष्ठन्ति वारिताः । 089a
काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा ॥ 089c
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह । 090a
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः ॥ 090c
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते । 091a
अङ्कवङ्काश्च यवना अनवद्या गयैः सह ॥ 091c
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः । 092a
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥ 092c
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः । 093a
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत ॥ 093c
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन् । 094a
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः ॥ 094c
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान् । 095a
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः ॥ 095c
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान् । 096a
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति ॥ 096c
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः । 097a
मरुकाः काशिका दर्दा भौमेया नटनाटकाः ॥ 097c
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः । 098a
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः खषाः ॥ 098c
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा । 099a
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा ॥ 099c
एते चान्ये च बहवो नानादिग्भ्यः समागताः । 100a
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः ॥ 100c
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च । 101a
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन् ॥ 101c
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान् । 102a
राजा चित्ररथो नाम गन्धर्वो वासवानुगः । 102c
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥ 102e
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् । 103a
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥ 103c
कृती राजा च कौरव्य शूकराणां विशाम्पते । 104a
अददद्गजरत्नानां शतानि सुबहून्यथ ॥ 104c
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् । 105a
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥ 105c
पांसुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् । 106a
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥ 106c
जवसत्वोपपन्नानां वयस्थानां नराधिप । 107a
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥ 107c
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश । 108a
दासानामयुतं चैव सदाराणां विशाम्पते ॥ 108c
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा । 109a
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥ 109c
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः । 110a
अददद्गजमुख्यानां सहस्राणि चतुर्दश ॥ 110c
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः । 111a
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम् ॥ 111c
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत् । 112a
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् ॥ 112c
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान् । 113a
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान् ॥ 113c
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम् । 114a
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ ॥ 114c
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च । 115a
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥ 115c
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः । 116a
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥ 116c
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः । 117a
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा ॥ 117c
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम् । 118a
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ॥ 118c
नानादेशसमुत्थैश्च नानाजातिभिरेव च । 119a
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ 119c
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून् । 120a
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत ॥ 120c
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव । 121a
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥ 121c
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः । 122a
रथानामर्बुदं चापि पादाता बहवस्तथा ॥ 122c
प्रमीयमाणमामं च पच्यमानं तथैव च । 123a
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥ 123c
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम् । 124a
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥ 124c
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः । 125a
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः । 125c
सुप्रीताः परितृष्टाश्च ते ह्याशंसन्त्यरिक्षयम् ॥ 125e
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् । 126a
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ 126c
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम् । 127a
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते ॥ 127c
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत । 128a
साम्बन्धिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥ ॥ 128c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥
2-78-2 नाविदमिति सम्बन्धः । अपि तथापि मुख्यतो वक्ष्यमाणं धनं प्रतिपद्यस्वेत्यर्थः । फलतो जातं वस्त्रादि । भूमितो जातं हीरादि ॥ 2-78-5 वस्त्राणि धान्यद्रव्यं च घ.पाठः ॥ 2-78-104 शूकराणां देशविशेषाणाम् ॥