अध्यायः 075
शकुनिना दुर्योधनम्प्रति पाण्डवानां पौरुषेणाजय्यत्वकथनपूर्वकं द्यूतेन जेष्यामीति समाश्वासनादिकम् ॥ 1 ॥
शकुनिरुवाच ॥ 001
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् । 001a
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥ 001c
विधानं विविधाकारं परं तेषां विधानतः । 002a
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा ॥ 002c
आरब्धा हि महाराज पुनःपुनररिन्दम । 003a
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः । 003c
'उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु' ॥ 003e
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह । 004a
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान् ॥ 004c
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते । 005a
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥ 005c
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी । 006a
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम् ॥ 006c
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः । 007a
कृता वशे महीपालास्तत्र का परिदेवना ॥ 007c
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् । 008a
सभां तां कारयामास सव्यसाची परन्तपः ॥ 008c
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः । 009a
वहन्ति तां सभां भीमास्तत्र का परिदेवना ॥ 009c
यच्चासहायतां राजन्नुक्तवानसि भारत । 010a
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः ॥ 010c
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान् । 011a
सूतपुत्रश्च राधेयो दृढधन्वा महारथः ॥ 011c
'स एकः समरे सर्वान्पाण्डवान्सहसोमकान् । 012a
विजेष्यति महाबाहो किं सहायैः करिष्यसि ॥ 012c
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः । 013a
जयद्रथश्च बलावान्सोमदत्तस्तथैव च' ॥ 013c
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः । 014a
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् ॥ 014c
दुर्योधन उवाच । 015
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः । 015a
एतानहं विजेष्यामि यदि त्वमनुमन्यसे ॥ 015c
एतेषु विजितेष्वद्य भविष्यति मही मम । 016a
सर्वे च पृथिवीपालाः सभा सा च महाधना ॥ 016c
शकुनिरुवाच ॥ 017
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः । 017a
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥ 017c
नैते युधि पराजेतुं शक्या देवगणैरपि । 018a
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ 018c
अहं तु तद्विजानामि विजेतुं येन शक्यते । 019a
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥ 019c
दुर्योधन उवाच ॥ 020
अप्रमादेन सुहृदामन्येषां च महात्मनाम् । 020a
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ 020c
शकुनिरुवाच । 021
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम् । 021a
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ॥ 021c
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि । 022a
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय ॥ 022c
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् । 023a
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ 023c
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय । 024a
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः ॥ 024c
दुर्योधन उवाच । 025
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल । 025a
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम् ॥ ॥ 025c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥