अध्यायः 073
व्यासम्प्रति युधिष्ठिरेण उत्पातफलप्रश्ने व्यासेन तत्कथनपूर्वकं कैलासगमनम् ॥ 1 ॥ व्यासोक्तं भ्रातृषु निवेद्य शोचतो युधिष्ठिरस्य अर्जुनेन समाश्वासनम् ॥ 2 ॥ युधिष्ठिरेण समयकरणम् ॥ 3 ॥
वैशम्पायन उवाच ॥ 001
'अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम् । 001a
अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम् ॥ 001c
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा' । 002a
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत ॥ 002c
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः । 003a
पाद्येनासनदानेन पितामहमपूजयत् ॥ 003c
अथोपविश्य भगवान्काञ्चने परमासने । 004a
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम् ॥ 004c
अथोपविष्टं राजानं भ्रातृभिः परिवारितम् । 005a
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः ॥ 005c
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम् । 006a
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह ॥ 006c
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते । 007a
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः ॥ 007c
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत् ॥ 008ac
युधिष्ठिर उवाच । 009
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः । 009a
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव ॥ 009c
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः । 010a
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह ॥ 010c
'सुमहच्च फलं तेषां भवितेति न संशयः' । 011a
अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत् ॥ 011c
वैशम्पायन उवाच ॥ 012
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः । 012a
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत् ॥ 012c
त्रयोदश समा राजन्नुत्पातानां फलं महत् । 013a
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते ॥ 013c
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ । 014a
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत । 014c
दुर्योधनापराधेन भीमार्जुनबलेन च ॥ 014e
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते । 015a
तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर ॥ 015c
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम् । 016a
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम् ॥ 016c
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम् । 017a
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम् ॥ 017c
कैलासकूटप्रतिमे वृषभेऽवस्थितं शिवम् । 018a
निरीक्षमाणं सततं पितृराजाश्रितां दिशम् ॥ 018c
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते । 019a
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः ॥ 019c
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति । 020a
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय ॥ 020c
वैशम्पायन उवाच ॥ 021
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ । 021a
कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः ॥ 021c
गते पितामहे राजा चिन्ताशोकसमन्वितः । 022a
निःश्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन् ॥ 022c
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम् । 023a
अवश्यमेव भविता यदुक्तं परमर्षिणा ॥ 023c
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः । 024a
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत् ॥ 024c
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः । 025a
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः ॥ 025c
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः । 026a
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत ॥ 026c
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम् । 027a
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर ॥ 027c
वैशम्पायन उवाच ॥ 028
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः । 028a
द्वैपायनस्य वचनं तत्रैव समचिन्तयत् ॥ 028c
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत । 029a
त्रयोदश समास्तात को ममार्थोऽस्ति जीवतः ॥ 029c
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान् । 030a
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन् ॥ 030c
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च । 031a
भेदो न भविता लोके भेदमूलो हि विग्रहः ॥ 031c
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन् । 032a
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः ॥ 032c
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः सन्निशम्य तत् । 033a
तमेव समवर्तन्त धर्मराजहिते रताः ॥ 033c
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह । 034a
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते ॥ 034c
कृतमङ्गलकल्याणो भ्रातृभिः पिरवारितः । 035a
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ ॥ 035c
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम् । 036a
दुर्योधनो महाराज शकुनिश्चापि सौबलः । 036c
सभायां समणीयायां तत्रैवास्ते नराधिप ॥ ॥ 036e
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥