अध्यायः 072
युधिष्ठिरेण व्यासादीनां पूजनम् ॥ 1 ॥ राज्ञां युधिष्ठिरमामन्त्र्य स्वस्वदेशगमनम् ॥ 2 ॥ श्रीकृष्णस्य युधिष्ठिरादीनामन्त्र्य द्वारकां प्रति गमनम् ॥ 3 ॥
वैशम्पायन उवाच ॥ 001
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान् । 001a
यज्ञः प्रीतिकरो राजन्सम्बभौ विपुलोत्सवः ॥ 001c
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् । 002a
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ॥ 002c
समापयामास च तं राजसूयं महाक्रतुम् । 003a
'कोटीसहस्रं प्रददौ ब्राह्मणानां महात्मनाम् ॥ 003c
न करिष्यति तं लोके कश्चिदन्यो महीपतिः । 004a
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः ॥ 004c
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः । 005a
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम् ॥ 005c
सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च । 006a
याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा । 006c
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान् ॥ 006e
युधिष्ठिर उवाच ॥ 007
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः । 007a
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः ॥ 007c
वैशम्पायन उवाच ॥ 008
अथ यज्ञं समाप्यान्ते पूजयामास माधवम् । 008a
बलदेवं च देवेशं भीष्माद्यांश्च कुरूद्वहान्' ॥ 008c
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम् । 009a
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ॥ 009c
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि । 010a
आजमीढाजमीढानां यशः संवर्धितं त्वया ॥ 010c
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः । 011a
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः ॥ 011c
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि । 012a
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ॥ 012c
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह । 013a
राजानः सर्व एवैते प्रीत्याऽस्मान्समुपागताः ॥ 013c
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः । 014a
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥ 014c
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः । 015a
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ॥ 015c
विराटमन्वायात्तूर्णं धृष्टद्युम्नः प्रतापवान् । 016a
धनञ्जयो यज्ञसेनं महात्मानं महारथम् ॥ 016c
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः । 017a
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ॥ 017c
नकुलः सुबलं राजन्सहपुत्रं समन्वयात् । 018a
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान् ॥ 018c
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः । 019a
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ॥ 019c
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च । 020a
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥ 020c
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन । 021a
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥ 021c
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम् । 022a
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ॥ 022c
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् । 023a
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥ 023c
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ ॥ 024ac
न ह्यहं त्वामृते वीर रतिं प्राप्नोमि कर्हचित् । 025a
अवश्यं चैव गन्तव्या भवता द्वारका पुरी ॥ 025c
वैशम्पायन उवाच ॥ 026
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् । 026a
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ॥ 026c
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः । 027a
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ॥ 027c
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे । 028a
सुभद्रां द्रौपदीं चैव सभाजयत केशवः ॥ 028c
निष्क्रम्यान्तःपुरात्तस्माद्युधिष्ठिरसहायवान् । 029a
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ॥ 029c
ततो मेघवपुःप्रख्यं स्यन्दनं च सुकल्पितम् । 030a
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ॥ 030c
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् । 031a
प्रदक्षिणमुपावृत्य समारुह्य महामनाः ॥ 031c
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ॥ 032ac
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः । 033a
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥ 033c
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः । 034a
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ 034c
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते । 035a
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ 035c
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः । 036a
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ ॥ 036c
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति । 037a
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप ॥ 037c
महादुर्योधनो राजा शकुनिश्चापि सौबलः । 038a
'सूतपुत्रश्च राधेयः सह दुःशासनादिभिः ॥ 038c
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत' । 039a
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः ॥ ॥ 039c
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥
2-72-28 सभाजयत प्रीणितवान् ॥ द्विसप्ततितमोऽध्यायः ॥ 72 ॥