अध्यायः 071
विस्तरेण राजसूयवर्णनम् ॥ 1 ॥
वैशम्पायन उवाच ॥ 001
ततः प्रववृते यज्ञो धर्मराजस्य धीमतः । 001a
शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः ॥ 001c
तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः । 002a
ररक्ष भगवाञ्छौरिः शार्ङ्गचक्रगदाधरः ॥ 002c
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः । 003a
हेतुवादान्बहून्प्राहुः परपक्षजिगीषवः ॥ 003c
ददृशुस्ते नृपतयो यज्ञस्य विधिमुत्तमम् । 004a
उपेन्द्रस्येव विहितं सहदेवेन भारत ॥ 004c
तद्यज्ञे न्यवसन्राजन्ब्राह्मणा भृशमुत्सुकाः । 005a
कथयन्तः कथाः पुण्याः पश्यन्तो नटनर्तकान् ॥ 005c
ददृशुस्तोरणान्यत्र हेमतालमयानि च । 006a
दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा ॥ 006c
स यज्ञस्तोरणैस्तत्र ग्रहैर्द्योरिव सम्बभौ । 007a
शय्यासनविहारांश्च सुबहून्रत्नसंवृतान् ॥ 007c
घटान्पात्रीकटाहानि कलशानि समन्ततः । 008a
न ते किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥ 008c
भुञ्जानानां च विप्राणां स्वादुभोज्यैः पृथग्विधैः । 009a
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥ 009c
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति । 010a
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते तत्र नित्यशः ॥ 010c
ओदनानां विकाराणि स्वादूनि च बहूनि च । 011a
विविधानि च भक्ष्याणि पेयानि मधुराणि च ॥ 011c
ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे । 012a
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा ॥ 012c
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खोऽध्मायत नित्यशः । 013a
मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत ॥ 013c
उत्तमः श्रूयते शब्दः श्रुत्वा विस्मयमागमन् । 014a
एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते ॥ 014c
अन्नस्य बहुशो राजन्नुत्सेधाः पर्वतोपमाः । 015a
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ 015c
जम्बूद्वीपो हि सकलो नानाजनपदायुतः । 016a
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ 016c
तत्र राजसहस्राणि पुरुषाणां ततस्ततः । 017a
गृहीत्वा धनमाजग्मुस्तस्य राज्ञो महाक्रतौ ॥ 017c
राजानः स्रग्विणश्चैव सम्मृष्टमणिकुण्डलाः । 018a
तान्परीविविषुर्विप्राञ्छतशोऽथ सहस्रशः ॥ 018c
विविधान्यन्नपानानि लेह्यानि विविधानि च । 019a
तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ 019c
नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च । 020a
गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेषु वै ॥ 020c
एतानि सततं भुक्त्वा तस्मिन्यज्ञे द्विजातयः । 021a
परां प्रीतिं ययुः सर्वे मोदमानास्ततस्ततः ॥ 021c
एवं प्रमुदितं सर्वं बहुशो धनधान्यवत् । 022a
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः ॥ 022c
यथावद्धूयमानाग्निं राजसूयं महाक्रतुम् । 023a
पाण्डवस्य यथाशास्त्रं जुहुवुः सर्वयाजकाः ॥ 023c
व्यासधौम्यादयः सर्वे विधिवत्षोडशर्त्विजः । 024a
स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ ॥ 024c
नाषडङ्गविदत्रासीत्सदस्यो नाबहुश्रुतः । 025a
नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः ॥ 025c
न तत्र कृपणः कश्चिद्दरिद्रो न बभूव ह । 026a
क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः ॥ 026c
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा । 027a
सहदेवो महातेजाः सततं राजशासनात् ॥ 027c
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः । 028a
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ 028c
ब्राह्मणा वेदशास्त्रज्ञाः कथाश्चक्रुश्च सर्वतः । 029a
रेमिरे च कथान्ते तु सर्वे तस्मिन्महाक्रतौ ॥ 029c
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः । 030a
आबभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला ॥ 030c
पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः । 031a
तर्कार्थमागताः केचित्केचिद्विद्याभिमानिनः ॥ 031c
केचिद्दिदृक्षया केचिद्भीत्या राज्ञः प्रतापिनः । 032a
सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः ॥ 032c
ततो वै हेमयूपांश्च सर्वरत्नसमाचितान् । 033a
शोभार्थं कारयामास सहदेवो महाद्युतिः ॥ 033c
ददृशुस्तोरणान्यत्र हेमतालमयानि च । 034a
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ ॥ 034c
तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः । 035a
दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा ॥ 035c
सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा । 036a
देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः ॥ 036c
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः । 037a
स राजसूयः शुशुभे धर्मराजस्य धीमतः ॥ 037c
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः । 038a
देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः ॥ 038c
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः । 039a
नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः ॥ 039c
विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः । 040a
रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ ॥ 040c
तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः । 041a
ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ ॥ 041c
इतिहासपुराणानि आख्यानानि च सर्वशः । 042a
ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ ॥ 042c
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये । 043a
शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः ॥ 043c
लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः । 044a
सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा ॥ 044c
नानादेशसमुद्भूतैर्नानाजातिभिरागतैः । 045a
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ 045c
भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः । 046a
वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः ॥ 046c
यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ । 047a
एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः ॥ 047c
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा । 048a
वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा ॥ 048c
निष्कहेमजभाण्डानि भूषणानि च सर्वशः । 049a
प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः ॥ 049c
यानि तत्र महीपालैर्लब्धवान्भरतर्षभः । 050a
तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा' ॥ ॥ 050c
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥