अध्यायः 070

कृष्णशिशुपालयोर्युद्धवर्णनम् ॥ 1 ॥ शिशुपालवधः ॥ 2 ॥

वैशम्पायन उवाच ॥ 001
ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः । 001a
अभियास्यन्हृषीकेशमुवाच मधुसूदनम् ॥ 001c
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव । 002a
ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम् ॥ 002c
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम् । 003a
चिरस्य वत मे —- वासुदेव सह त्वया । 003c
अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः ॥ 003e
वैशम्पायन उवाच । 004
एवमुक्त्वा स तं बाणैर्निशितैरात्ततेजनैः 004a
विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यदुपुङ्गवम् 004c
कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः 005a
विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम् 005c
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा 006a
ददृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे 006c
चेदिराजमहामेघः शरजालाम्बुमांस्तदा 007a
अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम् 007c
ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः 008a
आबभाषे महाबाहुः सुनीथं परवीरहा ॥ 008c
अयं त्वां मामकस्तीक्ष्णश्चेदिराज महाशरः । 009a
भेत्तुमर्हति वेगेन महाशनिरिवाचलम् ॥ 009c
वैशम्पायन उवाच । 010
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः । 010a
मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून् ॥ 010c
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान् । 011a
मुमोच निशितान्बाणाञ्छतशोथ सहस्रशः ॥ 011c
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट् । 012a
षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः ॥ 012c
ततोऽस्त्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः । 013a
अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट् ॥ 013c
ततः शतसहस्रेण शराणां नतपर्वणाम् । 014a
सर्वतः समवाकीर्य शौरिं दामोदरं तदा ॥ 014c
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान् । 015a
इदं चोवाच संरब्धः केशवं परवीरहा ॥ 015c
शिशुपाल उवाच ॥ 016
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे । 016a
हत्वा त्वां ससुतामात्यं पाण्डवांश्च तरस्विनः ॥ 016c
आनृण्यमद्य यास्यामि जरासन्धस्य धीमतः । 017a
कंसस्य केशिनश्चैव नरकस्य तथैव ह ॥ 017c
वैशम्पायन उवाच ॥ 018
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम् । 018a
अदृश्यं शरवर्षेण सर्वतः स चकार ह ॥ 018c
ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून् । 019a
शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे ॥ 019c
अन्तर्धानगतौ वीरौ शुशुभाते महारथौ । 020a
तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन् ॥ 020c
न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा । 021a
ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः ॥ 021c
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि । 022a
ततः सुनीथं सप्तत्या नाराचैर्दयद्बली ॥ 022c
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः । 023a
विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे ॥ 023c
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः । 024a
ततोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा ॥ 024c
तौ नखैरिव शार्दूलौ दन्तैरिव महागजौ । 025a
दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ ॥ 025c
दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ । 026a
ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम् ॥ 026c
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ । 027a
चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम् ॥ 027c
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान् । 028a
वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः ॥ 028c
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह । 029a
कौबेरेणैव सहसाऽनाशयत्तं जगत्प्रभुः ॥ 029c
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः । 030a
याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत् ॥ 030c
गान्धर्वेण च गान्धर्वं मानवं मानवेन च । 031a
वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः ॥ 031c
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम् । 032a
एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ ॥ 032c
ततो मायां विकुर्वाणो दमघोषसुतो बली । 033a
गदामुसलसंयुक्ताञ्छक्तितोमरसायकान् ॥ 033c
परश्वथमुसण्डीश्च ववर्ष युधि केशवम् । 034a
अमोघास्त्रेण भगवान्नाशयामास केशिहा ॥ 034c
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट् । 035a
वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः ॥ 035c
जलवर्षं ततो घोरं व्यसृजच्चेदिपुङ्गवः । 036a
वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत् ॥ 036c
निहत्य सर्वमायां वै सुनीथस्य जनार्दनः । 037a
स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः ॥ 037c
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट् । 038a
दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम् ॥ 038c
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः । 039a
इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने ॥ 039c
मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः । 040a
शरसङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः ॥ 040c
रुधिरं परिसुस्राव मदं मत्त इव द्विपः । 041a
न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः ॥ 041c
दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः । 042a
केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः ॥ 042c
दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम् । 043a
नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया ॥ 043c
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव । 044a
अन्यथा न च मे प्राणा धरायेयुर्जनार्दन ॥ 044c
अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु । 045a
एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत् ॥ 045c
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा । 046a
रिपुः सुराणामभवद्वरदानेन गर्वितः ॥ 046c
तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान् । 047a
तेनैव बलवीर्येण बलं नागणयन्मम ॥ 047c
अहं मृत्युश्च भविता काले काले दुरात्मनः । 048a
न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते ॥ 048c
इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः । 049a
पाञ्चजन्यं महाशङ्खं पूरयामास केशवः ॥ 049c
सम्मोहयित्वा भगवांश्चक्रं दिव्यं समाददे । 050a
चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे' ॥ 050c
स पपात महाबाहुर्वज्राहत इवाचलः । 051a
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः ॥ 051c
उत्पतन्तं महाराज गगनादिव भास्करम् । 052a
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् । 052c
ववन्दे तत्तदा तेजो विवेश च नराधिप ॥ 052e
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः । 053a
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥ 053c
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः । 054a
कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ॥ 054c
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन । 055a
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥ 055c
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः । 056a
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ 056c
रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः । 057a
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन् ॥ 057c
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः । 058a
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः । 058c
शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ॥ 058e
'सदेवगन्धर्वगणा राजानो भुवि विश्रुताः । 059a
प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि ॥ 059c
ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह । 060a
ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः ॥ 060c
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि । 061a
ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः ॥ 061c
ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः । 062a
परस्परं च नृत्यन्ति गीतेन विविधेन च । 062c
उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि ॥ 062e
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः । 063a
ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः ॥ 063c
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् । 064a
दमघोषात्मजं शूरं संस्कारयत मा चिरम् ॥ 064c
कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः । 065a
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ॥ 065c
चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः । 066a
अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः ॥ ॥ 066c

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥