अध्यायः 069
शिशुपाले सन्नद्धे सति उत्पातदर्शनेन युधिष्ठिरस्य प्रश्ने नारदेन तत्तदुत्पातानां विशिष्य फलकथनम् ॥ 1 ॥
वैशम्पायन उवाच ॥ 001
ततो युद्धाय सन्नद्धं चेदिराजं युधिष्ठिरः । 001a
दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह ॥ 001c
युधिष्ठिर उवाच ॥ 002
अन्तरिक्षे च भूमौ च न तेऽस्त्यविदितं क्वचित् । 002a
यानि राजविनाशाय भौमानि च खगानि च ॥ 002c
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः । 003a
एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने ॥ 003c
वैशम्पायन उवाच । 004
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः । 004a
पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः ॥ 004c
नारद उवाच ॥ 005
पराक्रमं च मार्गं च सन्निपातं समुच्छ्रयम् । 005a
आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम् ॥ 005c
रश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम् । 006a
दर्शनादर्शनं चैव अदृश्यानां च दर्शनम् ॥ 006c
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम् । 007a
सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः ॥ 007c
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम् । 008a
उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः ॥ 008c
यदा तु सर्वभूतानां छाया न परिवर्तते । 009a
अपरेण गते सूर्ये तत्पराभवलक्षणम् ॥ 009c
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते । 010a
यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम् ॥ 010c
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः । 011a
अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत् ॥ 011c
स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः । 012a
ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयः ॥ 012c
पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम् । 013a
राजा वा राजमात्रो वा मरणायोपपद्यते ॥ 013c
प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः । 014a
आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत् ॥ 014c
नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम् । 015a
वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा ॥ 015c
यदा भज्येत वातेन भिद्यते नमितोऽपि वा । 016a
अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति ॥ 016c
दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः । 017a
भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः । 017c
सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत् ॥ 017e
अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः । 018a
छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति ॥ 018c
देवतानां च पतनं मण्टपानां च पातनम् । 019a
अचलानां प्रकम्पश्च तत्पराभवलक्षणम् ॥ 019c
निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम् । 020a
तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ ॥ 020c
रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत् ॥ 021ac
अर्चा यत्र प्रनृत्यन्ति नदन्ति च हसन्ति च । 022a
उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत् ॥ 022c
शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान् । 023a
अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम् ॥ 023c
म्रियन्ते वा महामात्रा राजा सपरिवारकः । 024a
पुरस्य वा भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः ॥ 024c
देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि । 025a
भाण्डागारायुधागारे निविशेत यदा मधु ॥ 025c
सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा । 026a
आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत् ॥ 026c
पादपश्चैव यो यत्र रक्तं स्रवति शोणितम् । 027a
दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा ॥ 027c
पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः । 028a
गोब्राह्मणविनाशः स्याद्वृषभस्येति निर्दिशेत् ॥ 028c
छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले । 029a
सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति ॥ 029c
देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि । 030a
विकृतं यदि दृश्येत नागावासेषु वा पुनः ॥ 030c
तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा । 031a
अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत् ॥ 031c
अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत् । 032a
भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम् ॥ 032c
आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति । 033a
अभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम् ॥ 033c
प्रदीर्यते मही यत्र विनदत्यपि पात्यते । 034a
म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति ॥ 034c
एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान् । 035a
मण्डूको ग्रसते यत्र तत्र राजा विनश्यति ॥ 035c
अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते । 036a
जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते ॥ 036c
उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर । 037a
स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः ॥ 037c
अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम् । 038a
स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम् ॥ 038c
अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः । 039a
विकृतानि प्रजायन्ते तत्र तत्र पराभवः ॥ 039c
नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम् । 040a
दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम् ॥ 040c
एतानि च निमित्तानि यानि चान्यानि भारत । 041a
केशवादेव जायन्ते भौमानि च खगानि च ॥ 041c
चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत । 042a
वायुरग्निस्तथा चापः पृथिवी च जनार्दनात् ॥ 042c
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति । 043a
तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम् ॥ 043c
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम् । 044a
निवेदयति गोविन्दः स्वैरुपायैर्न संशयः ॥ 044c
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः । 045a
राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते ॥ 045c
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम् । 046a
चेदिराजविनाशाय हरिरेष विजृम्भते ॥ 046c
वैशम्पायन उवाच ॥ 047
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह ॥ 047ac
ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते । 048a
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून् ॥ 048c
तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत । 049a
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः ॥ 049c
ररास च मही कृत्स्ना सवृक्षवनपर्वता । 050a
अपर्वणि च मध्याह्ने सूर्यं स्वर्भानुरग्रसत् ॥ 050c
ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते । 051a
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप ॥ 051c
आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः । 052a
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते ॥ 052c
एवमादीनि घोराणि भौमानि च खगानि च । 053a
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि ॥ ॥ 053c
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥