अध्यायः 067
शिशुपालेन राज्ञां प्रशंसनपूर्वकं गर्हितेन भीष्मेण राज्ञां तिरस्करणादिकम् ॥ 1 ॥
भीष्म उवाच ॥ 001
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् । 001a
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥ 001c
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः । 002a
क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः ॥ 002c
एष ह्यस्य महाबाहुस्तेजोंशश्च हरेर्ध्रुवम् । 003a
तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः ॥ 003c
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् । 004a
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥ 004c
वैशम्पायन उवाच ॥ 005
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा । 005a
उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ 005c
शिशुपाल उवाच ॥ 006
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः । 006a
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ 006c
संस्तवे च मनो भीष्म परेषां रमते यदि । 007a
तदा संस्तुहि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ 007c
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् । 008a
जायमानेन येनेयभवद्दारिता मही ॥ 008c
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले । 009a
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥ 009c
यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते । 010a
कवचं च महाबाहो बालार्कसदृशप्रभम् ॥ 010c
वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः । 011a
विजितो बाहुयुद्धेन देहभेदं च लम्भितः ॥ 011c
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ । 012a
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ ॥ 012c
ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् । 013a
इमां वसुमतीं कुर्यान्निःशेषामिति मे मतिः ॥ 013c
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् । 014a
नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि ॥ 014c
पृथिव्यां सागरान्तायां यो वैप्रतिसमो भवेत् । 015a
दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम् ॥ 015c
जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम् । 016a
द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम् । 016c
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ 016e
वृद्धं च भरताचार्यं तथा शारद्वतं कृपम् । 017a
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ 017c
धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् । 018a
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् ॥ 018c
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम् । 019a
भगदत्तं यूपकेतुं जयत्सेनं च मागधम् ॥ 019c
विराटद्रुपदौ चोभौ शकुनिं च बहद्बलम् । 020a
विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम् ॥ 020c
शङ्खं च सुमहाभागं वृषसेनं च मानिनम् । 021a
एकलव्यं च विक्रान्तं कालिङ्गं च महारथम् ॥ 021c
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम् । 022a
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् । 022c
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥ 022e
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप । 023a
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥ 023c
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः । 024a
अनाचरितमार्याणामिति ते भीष्म न श्रुतम् ॥ 024c
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः । 025a
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥ 025c
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि । 026a
समावेशयसे सर्वं जगत्केवलकाम्यया ॥ 026c
अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत । 027a
मयैव कथितं पूर्वं कुलिङ्गशकुनिर्यथा ॥ 027c
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे । 028a
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥ 028c
मा साहसमितीदं सा सततं वाशते किल । 029a
साहसं चात्मनातीव चरन्ती नावबुध्यते ॥ 029c
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः । 030a
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥ 030c
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् । 031a
तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे ॥ 031c
इच्छतां भूमिपालानां भीष्म जीवस्यसंशयम् । 032a
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥ 032c
वैशम्पायन उवाच ॥ 033
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः । 033a
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ 033c
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् । 034a
सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान् ॥ 034c
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः । 035a
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥ 035c
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः । 036a
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥ 036c
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः । 037a
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥ 037c
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः । 038a
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ 038c
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये । 039a
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥ 039c
पशुवद्घातनं वा मे दहनं वा कटाग्निना । 040a
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥ 040c
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः । 041a
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥ 041c
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम् । 042a
यादवस्यैव देवस्य देहं विशतु पातितः ॥ ॥ 042c
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥
2-67-15 वैप्रतिसमः विगतः प्रतिसमो यस्य स तथा । स्वार्थे तद्धितः । अतुल इत्यर्थः ॥ 2-67-27 कुलिङ्गशकुनिरिति स्त्रीपक्षिविशेषः ॥ 2-67-37 कटाग्निना कक्षाग्निना ॥ सप्तषष्टितमोऽध्यायः ॥ 67 ॥