अध्यायः 065

कृष्णनिन्दाश्रवणेन शिशुपालजिघांसया उत्पततो भीमस्य भीष्मेण विनिवर्तनम् ॥ 1 ॥

शिशुपाल उवाच । 001
स मे बहुमतो राजा जरासन्धो महाबलः । 001a
योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ॥ 001c
केशवेन कृतं कर्म जरासन्धवधे तदा । 002a
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ॥ 002c
अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना । 003a
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः ॥ 003c
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता । 004a
प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने ॥ 004c
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः। 005a
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ॥ 005c
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे । 006a
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ॥ 006c
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया । 007a
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ॥ 007c
अथवा नैतदाश्चर्यं येषां त्वमसि भारत । 008a
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ॥ 008c
वैशम्पायन उवाच ॥ 009
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु । 009a
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ॥ 009c
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते । 010a
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः ॥ 010c
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः । 011a
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥ 011c
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम् । 012a
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः ॥ 012c
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन् । 013a
भीष्म एव महाबाहुर्महासेनमिवेश्वरः ॥ 013c
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत । 014a
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥ 014c
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः । 015a
समुद्वृत्तो घनापाये वेलामिव महोदधिः ॥ 015c
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप । 016a
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ॥ 016c
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः । 017a
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा ॥ 017c
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् । 018a
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ॥ 018c
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः । 019a
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना ॥ 019c
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः । 020a
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः ॥ 020c
'नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम् । 021a
भीमसेन महाबाहो कृष्णस्यैष विनिश्चयः' ॥ ॥ 021c

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

2-65-13 महासेनं कार्तिकयम् ॥ पञ्चषष्टितमोऽध्यायः ॥ 65 ॥