अध्यायः 063
राज्ञां रणोद्यमाद्बिभ्यतो युधिष्ठिरस्य भीष्मेण समाश्वासनम् ॥ 1 ॥
वैशम्पायन उवाच ॥ 001
ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम् । 001a
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम् ॥ 001c
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः । 002a
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम् । 002c
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ॥ 002e
असौ रोषात्प्रचलितो महान्नृपतिसागरः । 003a
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ॥ 003c
यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् । 004a
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ॥ 004c
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे । 005a
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥ 005c
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति । 006a
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥ 006c
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः । 007a
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥ 007c
वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः । 008a
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ ॥ 008c
न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः । 009a
'तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि' । 009c
तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः ॥ 009e
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः । 010a
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥ 010c
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः । 011a
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत ॥ 011c
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर । 012a
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम् ॥ 012c
आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा । 013a
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥ 013c
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः । 014a
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ॥ 014c
वैशम्पायन उवाच । 015
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः । 015a
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ ॥ 015c
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥
2-63-7 भषणं श्वरवः ॥ त्रिषष्टितमोऽध्यायः ॥ 63 ॥