अध्यायः 061

भीष्मेण नरकबाणासुरप्रमुखदुष्टनिग्रहादिरूपातीतानागतकृष्णचरित्रनिरूपणम् ॥ 1 ॥ ।

भीष्म उवाच ॥ 001
सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ । 001a
कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ 001c
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ । 002a
धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च ॥ 002c
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम् । 003a
रुक्मिणं त्रासयामास केशवो भरतर्षभ ॥ 003c
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा । 004a
उवाह महिषीं भोज्यामेष चक्रगदाधरः ॥ 004c
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः । 005a
वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः ॥ 005c
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः । 006a
हतः सौभपतिश्चैव साल्वश्च कृतधन्वना ॥ 006c
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः । 007a
विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत् ॥ 007c
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ । 008a
जग्राह भरतश्रेष्ठ वानरावभितश्चरौ ॥ 008c
इरावत्यां महाभोजो वह्निसूर्यसमो बले । 009a
गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥ 009c
अक्षप्रपत्तने राजन्नवहेलनतत्परौ । 010a
उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ ॥ 010c
दग्धा वाराणसी तात केशवेन महात्मना । 011a
पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः ॥ 011c
जघान सहितान्सर्वानङ्गराजं च माधवः ॥ 012ac
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान् । 013a
गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः ॥ 013c
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः । 014a
जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः ॥ 014c
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम् । 015a
युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ ॥ 015c
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः । 016a
वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर ॥ 016c
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् । 017a
वेणुदारिवशे युक्तां जिगाय मधुसूदनः ॥ 017c
अवाप्य तपसा वीर्यं बलमोजश्च भारत । 018a
त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः ॥ 018c
वज्राशनिगदाबाणैस्ताडयद्भिरनेकशः । 019a
तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः ॥ 019c
सोऽभिभूतश्च कृष्णेन न हतश्च महात्मना । 020a
छित्वा बाहुसहस्रं तु गोविन्देन महात्मना ॥ 020c
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः । 021a
अवाप्तं तपसा वीर्यं बलमोजश्च भारत । 021c
कैटभं चातिलोमानि निजघान जनार्दनः ॥ 021e
जम्बुमैरावतं चैव विरूपं च महायशाः । 022a
जघान भरतश्रेष्ठ शम्बरं चारिमर्दनम् ॥ 022c
एष भोगवतीं गत्वा वासुकिं भरतर्षभ । 023a
निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत् ॥ 023c
एवं बहूनि कर्माणि शिशुरेव जनार्दनः । 024a
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान् ॥ 024c
एवमेषोऽसुराणां च सुराणामपि सर्वशः । 025a
भयाभयकरः कृष्णः सर्वलोकेश्वरः प्रभुः ॥ 025c
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम् । 026a
कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः ॥ 026c
एष भोगवतीं पुण्यां रविकान्तिं महायशाः । 027a
द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति ॥ 027c
सुरासुरमनुष्येषु नाभून्न भविता क्वचित् । 028a
यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात् ॥ 028c
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः । 029a
तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः ॥ 029c
एवमेव दशार्हाणां विधाय विधिना विधिम् । 030a
विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम् ॥ 030c
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी । 031a
मोदते भगवान्प्रीतो वालः क्रीडनकैरिव ॥ 031c
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः । 032a
आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ॥ 032c
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते । 033a
चराचराणि भूतानि तथा नारायणे सदा ॥ 033c
न प्रमातुं महाबाहुः शक्यो भारत केशवः । 034a
परं हि परतस्तस्माद्विश्वरूपान्न विद्यते ॥ ॥ 034c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥