अध्यायः 058

कृष्णदर्शनाय वसुदेवादीनामागमनम् ॥ 1 ॥ रामकृष्णाभ्यां पित्रादिवन्दनपूर्वकं बन्धुभ्यो रत्नादिवितरणम् ॥ 2 ॥ इन्द्रस्य कृष्णचरितप्रशंसनपूर्वकं स्वलोकगमनम् ॥ 3 ॥

भीष्म उवाच । 001
एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः । 001a
उपेन्द्रबलदेवौ च वासवश्च महायशाः ॥ 001c
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः । 002a
प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ॥ 002c
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् । 003a
ररास च नभः सर्वं तच्चित्रमभवत्तदा ॥ 003c
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्धकाः । 004a
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥ 004c
वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह । 005a
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ॥ 005c
आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी । 006a
रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः ॥ 006c
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः । 007a
एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः ॥ 007c
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात् । 008a
चकाराथ यथोद्देशमीश्वरो मणिपर्वतम् ॥ 008c
ततो धनानि रत्नानि सभायां मधुसूदनः । 009a
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः ॥ 009c
ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत । 010a
यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः ॥ 010c
ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः । 011a
तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम् ॥ 011c
ववन्दे सह रामेण पितरं वासवानुजः । 012a
ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा ॥ 012c
यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः । 013a
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥ 013c
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च । 014a
व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः ॥ 014c
सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा । 015a
शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा ॥ 015c
अथासनगतान्सर्वानुवाच विबुधाधिपः । 016a
शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः । 016c
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम् ॥ 016e
इन्द्र उवाच । 017
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः । 017a
यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः ॥ 017c
अयं शतसहस्राणि दानवानामरिन्दमः । 018a
निहत्य पुण्डरीकाक्षः पातालविवरं ययौ ॥ 018c
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः । 019a
तदिदं शौरिणा वित्तं प्रापितं भवतामिह ॥ 019c
सपाशं मुरमाक्रम्य पाञ्चजन्यं च धीमता । 020a
शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः ॥ 020c
हयग्रीवश्च विक्रान्तो दानवो निहतो बली । 021a
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः ॥ 021c
पुनर्बाणवधे शौरिमादित्या वसुभिः सह । 022a
मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम् ॥ 022c
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान् । 023a
सस्वजे रामकृष्णौ च वसुदेवं च वासवः ॥ 023c
प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम् । 024a
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा ॥ 024c
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम् । 025a
सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम् । 025c
भोजं च कृतवर्माणमन्यांश्चान्धकवृष्णिषु ॥ 025e
आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम् । 026a
ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः ॥ 026c
पश्यतां सर्वभातानामारुरोह शचीपतिः । 027a
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम् ॥ 027c
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत् । 028a
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम् ॥ 028c
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम् । 029a
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम् ॥ 029c
दिशागजं महामात्रं काञ्चनस्रजमास्थितः । 030a
प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव ॥ 030c
ततो वज्रमयं भीमं प्रगृह्य परामाङ्कुशम् । 031a
ययौ बलवता सार्धं पावकेन शचीपतिः ॥ 031c
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः । 032a
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः ॥ 032c
स वायुपक्षमास्थाय वैश्वानरपथं गतः । 033a
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत ॥ ॥ 033c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥