अध्यायः 057

द्वारकावर्णनम् ॥ 1 ॥ रुक्मिणीसत्यभामादिगृहवर्णनम् ॥ 2 ॥ कृष्णेन स्वर्गादानीतस्व पारिजातस्य प्रतिष्ठापनमुद्यान वर्णनं च ॥ 3 ॥

भीष्म उवाच ॥ 001
तां पुरी द्वारकां दृष्ट्वा विभुर्नारायणो हरिः । 001a
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ॥ 001c
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून् । 002a
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान् ॥ 002c
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः । 003a
द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा ॥ 003c
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः । 004a
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम् ॥ 004c
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम् । 005a
वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम् ॥ 005c
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः । 006a
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा ॥ 006c
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी । 007a
गीतघोषमहाघोषैः प्रसादप्रवरैः शुभा ॥ 007c
तस्मिन्पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् । 008a
वेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः ॥ 008c
समुच्छ्रितपताकानि पारिप्लवनिभानि च । 009a
काञ्चनाभानि भास्वन्ति मेरुकूटनिभानि च ॥ 009c
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिचछदैः । 010a
रत्नसानुमहाशृङ्गैः सर्वरत्नसमन्वितैः ॥ 010c
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्जरैः । 011a
सयन्त्रगृहसम्बाधैः सधातुभिरिवाद्रिभिः ॥ 011c
मणिकाञ्चनभौमैश्च सुधामृष्टतलैस्तथा । 012a
जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः ॥ 012c
सर्वर्तुसुखसंस्पर्शैर्महाधनपरिच्छदैः । 013a
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः ॥ 013c
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः । 014a
तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा ॥ 014c
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः । 015a
वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः ॥ 015c
वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता । 016a
ददृशे द्वारकाऽतीव मेघैर्द्यौरिव संवृता ॥ 016c
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा । 017a
ददृशुर्वासुदेवस्य चतुर्योजनमायतम् ॥ 017c
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः । 018a
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ॥ 018c
यं चकार महाभागस्त्वष्टा वासवचोदितः । 019a
प्रासादं हेमनाभस्य सर्वतो योजनायतम् ॥ 019c
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम् । 020a
रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना ॥ 020c
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम् । 021a
विचित्रमणिसोपानं यं विदुः शीतवानिति ॥ 021c
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् । 022a
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम् ॥ 022c
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः । 023a
प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन् ॥ 023c
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः । 024a
विश्वकर्माकरोदेनं कैलासशिखरोपमम् ॥ 024c
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः । 025a
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥ 025c
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी । 026a
सुकेशी नाम विख्याता केशवेन निवेशिता ॥ 026c
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः । 027a
सुप्रभाया महाबाहो वासः स परमोच्छ्रितः ॥ 027c
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते । 028a
लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना ॥ 028c
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः । 029a
श्वेतजाला हि यत्रैव यत्रैव च निवेशिता ॥ 029c
यं विदुः सर्वभूतानि हरिरित्येव भारत । 030a
सुमित्रविजयावासो देवर्षिगणपूजितः ॥ 030c
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम् । 031a
यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः ॥ 031c
महिष्या वासुदेवस्य केतुमानिति विश्रुतः । 032a
प्रसादो विरजो नाम विरजस्को महात्मनः ॥ 032c
उपस्थानगृहं तात केशवस्य महात्मनः । 033a
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम् ॥ 033c
योजनायतविष्कम्भं सर्वरत्नमयं विभोः । 034a
तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः ॥ 034c
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः । 035a
घण्टाजालानि तत्रैव सर्वेषां च निवेशने ॥ 035c
आहृत्य यदुसिंहेन वैजयन्तच्छलो महान् । 036a
हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत् ॥ 036c
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम् । 037a
सकिन्नरमहानादं तदप्यमिततेजसः ॥ 037c
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम् । 038a
आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम् ॥ 038c
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् । 039a
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम् ॥ 039c
भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम् । 040a
यमिन्द्रभवनाच्छौरिराजहार परन्तपः ॥ 040c
पारिजातः स तत्रैव केशवेन निवेशितः । 041a
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः ॥ 041c
विहिता वासुदेवेन तत्रैव च महाद्रुमाः । 042a
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥ 042c
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च । 043a
तासां परमकूलानि शोभयन्ति महाद्रुमाः ॥ 043c
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः । 044a
भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः ॥ 044c
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः । 045a
ये च हैमवता वृक्षा ये च नन्दनजास्तथा ॥ 045c
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः । 046a
रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः ॥ 046c
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु । 047a
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः ॥ 047c
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः । 048a
कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः ॥ 048c
सप्तपर्णाः कबन्धाश्च नीपाः कुरवकास्तथा । 049a
केतकाः केसराश्चैव हिनतालतलताटकाः ॥ 049c
तालाः प्रलम्बा बकुलाः पिण्डिका बीजपूरकाः । 050a
द्रुतामलकखर्जूरा महिता जम्बुकास्तथा ॥ 050c
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः । 051a
लिकुचामृतकाश्चैव क्षीरिका कर्णिका तथा ॥ 051c
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च । 052a
कदली जातमल्ली च पाटली कुमुदोत्पलाः ॥ 052c
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः । 053a
फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः ॥ 053c
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः । 054a
प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः ॥ 054c
शचीपीलुपलाशैश्च पलाशवधपिप्लैः । 055a
उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः ॥ 055c
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः । 056a
भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः ॥ 056c
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा । 057a
वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः ॥ 057c
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने । 058a
सर्वे ते यदुनाथेन समन्तात्परिरोपिताः ॥ 058c
समाहिता महानद्यः पीतलोहितवालुकाः । 059a
तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः ॥ 059c
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः । 060a
बभूवुः परमोपेताः सर्वे जगति पर्वताः ॥ 060c
तत्रैव गजयूथानि तत्र गोमहिषास्तथा । 061a
निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम् ॥ 061c
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि । 062a
व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः ॥ 062c
तेन ते च महाशैलाः सरितश्च सरांसि च । 063a
परिक्षिप्तानि वै तस्य वनान्युपवनानि च ॥ ॥ 063c

इति श्रीमन्महाभारते सभापर्वण अर्घाहरणपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥