अध्यायः 055
कृष्णस्य मधुरां त्यक्त्वा द्वारकागमनम् ॥ 1 ॥ नरकासुरप्रतापवर्णनम् ॥ 2 ॥ इन्द्रेण द्वारकामेत्य कृष्णं प्रति नरकवधप्रार्थनम् ॥ 3 ॥ गरुडमारुह्य प्राग्ज्योतिषं गतेन कृष्णेन नरके निहते धरण्या तस्मै कुण्डलार्पणम् ॥ 4 ॥
भीष्म उवाच । 001
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः । 001a
द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत ॥ 001c
ततो महात्मा यानानि रत्नानि विविधानि च । 002a
यथार्हं पुण्डरीकाक्षो नैर्ऋतात्प्रत्यपद्यत ॥ 002c
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः । 003a
ताञ्जघान महाबाहुर्वरमत्तान्महासुरान् ॥ 003c
स विघ्नमकरोत्तत्र नरको नाम नैर्ऋतः । 004a
अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर ॥ 004c
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा । 005a
कृतपूर्वं महाघोरं यदकार्षीन्महासुरः ॥ 005c
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् । 006a
विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः ॥ 006c
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः । 007a
त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह ॥ 007c
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा । 008a
मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः ॥ 008c
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत् । 009a
जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः ॥ 009c
तस्यास्य पुरुषेन्द्रस्य लोकप्रथिततेजसः । 010a
निवासो द्वारकायां तु विदितो वः प्रधानतः ॥ 010c
अतीव हि पुरी रम्या द्वारका वासवक्षयात् । 011a
अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर ॥ 011c
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया । 012a
सुधर्मेति च विख्याता योजनायतविस्तृता ॥ 012c
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः । 013a
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ॥ 013c
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ । 014a
दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः ॥ 014c
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः । 015a
मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः ॥ 015c
मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः । 016a
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत ॥ 016c
रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह । 017a
उत्पत्य सहसा देवे नमस्कारमकुर्वत ॥ 017c
सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम् । 018a
सस्वजे बलदेवं च राजानं च तमाहुकम् ॥ 018c
वासुदेवोद्धवौ चैव विकद्रुं च महामतिम् । 019a
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम् ॥ 019c
गदं सारणमक्रूरं भानुझल्लिविडूरथान् । 020a
तथैव कृतवर्माणं चारुदेष्णं महाबलम् ॥ 020c
देवकल्पान्महाराज तान्दाशार्हपुरोगमान् । 021a
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः ॥ 021c
वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः । 022a
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः ॥ 022c
सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम् । 023a
उवाच परमप्रीतो जहि भौमं नरेश्व ॥ 023c
भीष्म उवाच । 024
निहत्य नरकं भौममाहरिष्यामि कुण्डले । 024a
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत ॥ 024c
प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले । 025a
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः ॥ 025c
अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत् । 026a
ययौ तदा हृषीकेशो देवानां हितकाम्यया ॥ 026c
तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः । 027a
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम् ॥ 027c
उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान् । 028a
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रं ददर्श सः ॥ 028c
सञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम् । 029a
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत् ॥ 029c
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत् । 030a
तं जघान महावीर्यं हयग्रीवं महाबलम् ॥ 030c
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः । 031a
मध्ये लोहितगङ्गायां भगवान्देवकीसुतः ॥ 031c
औदकायां विरूपाक्षं जघान मधुसूदनः । 032a
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया । 032c
पुरमासादयामास तत्र युद्धमवर्तत ॥ 032e
तद्युद्धमभवद्घोरं तेन भौमेन भारत । 033a
कुण्डलार्थे सुरेशस्य नरकेण महात्मना ॥ 033c
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः । 034a
प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली ॥ 034c
चक्रप्रमथितं तस्य पपात सहसा भुवि । 035a
उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा ॥ 035c
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम् । 036a
प्रदाय च महाबाहुमिदं वचनमब्रवीत् ॥ 036c
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः । 037a
यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय ॥ 037c
श्रीवासुदेव उवाच । 038
देवानां च मुनीनां च पितॄणां च महात्मनाम् । 038a
उद्वेजनीयो भूतानां ब्रह्मद्विट् पुरुषाधमः ॥ 038c
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः । 039a
सर्वलोकनमस्कार्यामदितं बाधयद्वली ॥ 039c
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः । 040a
नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि ॥ 040c
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम् । 041a
तस्माद्गच्छ महाभागे भारावतरणं कृतम् ॥ ॥ 041c
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥