अध्यायः 052

विष्णुना देवानां भूमावुत्पत्तये आज्ञापनम् ॥ 1 ॥ अवतीर्णे कृष्णे स्वर्गादागतानामिन्द्रादीनां श्रीकृष्णं स्तुत्वा पुनः स्वलोकगमनम् ॥ 2 ॥ श्रीकृष्णेन शकटासुरवधः । अर्जुनतरुभञ्जनम् । वृन्दावनं गत्वा वने विहरणम् ॥ 3 ॥

भीष्म उवाच । 001
यच्चक्रे भगवान्विष्णुर्वसुदेवसुतस्तदा । 001a
तत्तेऽहं सम्प्रवक्ष्यामि शृणु सर्वमशेषतः ॥ 001c
वासुदेवस्य महात्म्यं चरितं च महात्मनः । 002a
हितार्थं सुरमर्त्यानां लोकानां च हिताय च ॥ 002c
यदा दिवि विभुस्तात न रेमे भगवानसौ । 003a
ततो व्यादिश्य भूतानि विभुर्भूमिसुखावहः ॥ 003c
निग्रहार्थाय दैत्यानां चोदयामास वै तदा । 004a
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ ॥ 004c
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ । 005a
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः ॥ 005c
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः । 006a
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह ॥ 006c
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले । 007a
आत्मानमात्मना तात कृत्वा बहुविधं हरिः । 007c
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः ॥ 007e
अजातशत्रो जातस्तु यथेष्टं भुवि भूमिप । 008a
कीर्त्यमानं मया तात निबोध भरतर्षभ ॥ 008c
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः । 009a
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ 009c
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः । 010a
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने ॥ 010c
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे । 011a
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ॥ 011c
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसूदनम् । 012a
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः ॥ 012c
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् । 013a
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥ 013c
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः । 014a
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा ॥ 014c
कृत्वा च देवकार्याणि कृत्वा देवहितानि च । 015a
स्वं लोकं लोककृद्देवः पुनर्गच्छति तेजसा ॥ 015c
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः । 016a
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम् ॥ 016c
नन्दगोपकुले कृष्ण उवास बहुलाः समाः । 017a
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम् ॥ 017c
यशोदा सम्परित्यज्य जगाम यमुनां नदीम् । 018a
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् ॥ 018c
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् । 019a
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः ॥ 019c
तत्र एकेन पादेन पातयित्वा तथा शिशुः । 020a
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च ॥ 020c
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम् । 021a
जनास्ते शिशुना तेन विस्मयं परमं ययुः ॥ 021c
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम् । 022a
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा ॥ 022c
पूतना चापि निहता महाकाया महास्तनी । 023a
ततः काले महाराज संसक्तौ रामकेशवौ ॥ 023c
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः । 024a
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे ॥ 024c
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा । 025a
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप ॥ 025c
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने । 026a
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत ॥ 026c
ततः स बालो गोविन्दो नवनीतं तदा क्षयम् । 027a
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा ॥ 027c
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः । 028a
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ ॥ 028c
समूलविटपौ भग्नौ तदद्भुतमिवाभवत् । 029a
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ॥ 029c
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः । 030a
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ॥ 030c
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ । 031a
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ॥ 031c
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ । 032a
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ॥ 032c
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ । 033a
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ॥ 033c
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ । 034a
क्वचिद्वसन्तावन्योन्यं क्रीडमानौ क्वचिद्वने ॥ 034c
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ । 035a
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम् ॥ 035c
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम् । 036a
ततो वृन्दावनं गत्वा वसुदेवसुतावुभौ । 036c
गोकुलं तत्र कौन्तेय चारयन्तौ विजह्रतुः ॥ ॥ 036e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥