अध्यायः 051

युधिष्ठिरेण भीष्मम्प्रति विस्तरेण कृष्णकथाकथनप्रार्थना ॥ 1 ॥ देवासुरयुद्धे पराजितानां देवानां स्मरणमात्रसन्निहितेन हरिणा दैत्यानां पराजयः ॥ 2 ॥ भूम्या स्वभारावतरणं प्रार्थितेऽस्य विष्णोः भूमाववतारनिर्धारणम् ॥ 3 ॥

वैशम्पायन उवाच ॥ 001
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः । 001a
आबभाषे पुनर्भीष्मं धर्मराजो युधिष्ठिरः ॥ 001c
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः । 002a
जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर ॥ 002c
यथैव भगवाञ्जातः क्षिताविह जनार्दनः । 003a
माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह ॥ 003c
वैशम्पायन उवाच । 004
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः । 004a
माधवेषु तथा जन्म कथयामास वीर्यवान् ॥ 004c
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम् । 005a
यतो नारायणस्येह जन्म वृष्णिषु कौरव ॥ 005c
पुरा लोके महाराज वर्तमाने कृते युगे । 006a
आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥ 006c
विरोचनो मयस्तारो वराहः श्वेत एव च । 007a
विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः ॥ 007c
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः । 008a
लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः ॥ 008c
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः । 009a
नानाशस्त्रधरा राजन्नानाभूषणवाहनाः ॥ 009c
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः । 010a
देवास्तु युध्यमानास्ते दानवानभ्ययू रणे ॥ 010c
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । 011a
इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः ॥ 011c
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः । 012a
चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम् ॥ 012c
युध्यमानाः समेयुश्च देवा दैतेयदानवैः । 013a
तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ॥ 013c
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा । 014a
तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः ॥ 014c
घ्नन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान् । 015a
ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे ॥ 015c
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम् । 016a
एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः ॥ 016c
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः । 017a
तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम् ॥ 017c
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रणे सुराः । 018a
चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः ॥ 018c
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम् । 019a
जघ्नुर्दैत्यान्रणे घोराः सर्वे शक्रपुरोगमाः ॥ 019c
ते बाध्यमाना विबुधैर्दुद्रुवुर्दैत्यदानवाः ॥ 020ac
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे । 021a
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत ॥ 021c
शत्रुप्रहरणे घोरः शतबाहुः शताननः । 022a
शतशीर्षः स्थितः श्रीमाञ्छतशृङ्ग इवाचलः ॥ 022c
भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः । 023a
धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः ॥ 023c
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः । 024a
तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश ॥ 024c
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः । 025a
तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्रणे ॥ 025c
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः । 026a
आपीडयन्रणे क्रुद्धास्ततो देवान्युधिष्ठिर ॥ 026c
ते वध्यमाना विबुधाः समरे कालनेमिना । 027a
दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश ॥ 027c
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महासुरः । 028a
इन्द्रं यमं च वरुणं वायुं च धनदं रविम् ॥ 028c
एतांश्चान्यान्बलाज्जित्वा तेषां कार्याण्यवाप सः । 029a
तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः ॥ 029c
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम् । 030a
तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा ॥ 030c
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे । 031a
रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत् ॥ 031c
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः । 032a
स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन् ॥ 032c
स ताड्यमानोतिबलैर्दैत्यैः सर्वायुधोद्यतैः । 033a
न चचाल हरिर्युद्धेऽकम्पमान इवाचलः ॥ 033c
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम् । 034a
जघान गदया राजंस्तं विष्णुं गरुडं च वै ॥ 034c
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः । 035a
शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः ॥ 035c
जघानान्यांश्च तान्सर्वान्समरे दैत्यदानवान् । 036a
विबुधानामृषीणां च स्वानि स्थानानि वै ददौ ॥ 036c
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत । 037a
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः ॥ 037c
ब्रह्मलोकं प्रविश्याथ प्राप्य नारायणः प्रभुः । 038a
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम् ॥ 038c
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः । 039a
सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे ॥ 039c
आदिदेवः पुराणात्मा निद्रावशमुपागतः । 040a
शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः ॥ 040c
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः । 041a
षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया ॥ 041c
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह । 042a
ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः ॥ 042c
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह । 043a
देवानां च हितार्थाय ययौ देवसभां प्रति ॥ 043c
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम् । 044a
विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत ॥ 044c
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा । 045a
तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी ॥ 045c
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता । 046a
नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः ॥ 046c
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः । 047a
राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः ॥ 047c
भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः । 048a
ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता ॥ 048c
तस्माद्धारयितुं शक्त्या न क्षमामि जनानहम् । 049a
दैत्यैश्च बाध्यमानास्ताः प्रजा नित्यं दुरात्मभिः ॥ 049c
भीष्ण उवाच । 050
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा । 050a
व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे ॥ ॥ 050c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

2-51-42 कृतयुगत्रेताद्वापराः अन्त इति छेदः ॥ एकपञ्चाशोऽध्यायः ॥ 51 ॥