अध्यायः 050

श्रीविष्णोर्दशरथगृहे रामत्वेनावतारः ॥ 1 ॥ विश्वामित्रेण स्वाश्रमं नीतेन सलक्ष्मणेन रामेण सुबाह्वादिहननम् ॥ 2 ॥ सीतामुदूह्य निजनगरमेत्य पितृनिदेशेन सीतालक्ष्मणाभ्यां सह वनं गतेन रामेण स्वरदूषणादिहननम् ॥ 3 ॥ सीतावियोगिनः सुग्रीवेण सख्यमेत्य वालिनं संहृतवतो रामस्य हनुमद्वचनेन लङ्क ागमनम् ॥ 4 ॥ रावणादीन्निहत्य सीताप्रमुखैः सहायोध्यां गतेन रामेण लवणासुरं शत्रुघ्नेन घ ातयित्वा प्रजापालनम् ॥ 5 ॥ सङ्ग्रहेण श्रीकृष्णचरित्रनिरूपणं कल्क्यवतारकथनं च ॥ 6 ॥

भीष्म उवाच 001
शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः । 001a
अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः ॥ 001c
तिथौ नावमिके जज्ञे तथा दशरथादपि । 002a
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः ॥ 002c
लोके राम इति ख्यातस्तेजसा भास्करोपमः । 003a
प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः ॥ 003c
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः । 004a
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ॥ 004c
यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत । 005a
सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम् ॥ 005c
तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता । 006a
वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि ॥ 006c
वर्तमाने महायज्ञे जनकस्य महात्मनः । 007a
भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम् ॥ 007c
ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः । 008a
नगरीं पुनरासाद्य मुमुदे तत्र सीतया ॥ 008c
कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः । 009a
कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत ॥ 009c
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन । 010a
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ॥ 010c
चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत । 011a
रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः ॥ 011c
पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति । 012a
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ 012c
मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा । 013a
चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम् ॥ 013c
जघान रामो धर्मात्मा प्रजानां हितकाम्यय । 014a
विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ ॥ 014c
जघान च तदा रामो गन्धर्वौ शाषविक्षतौ । 015a
स रावणस्य भगिनीनासाच्छेदमकारयत् ॥ 015c
भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम् । 016a
स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च ॥ 016c
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै । 017a
अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह ॥ 017c
निहत्य वालिनं युद्धे वानरेद्रं महाबलम् । 018a
अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम् ॥ 018c
ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः । 019a
विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः ॥ 019c
मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः । 020a
सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै ॥ 020c
देवोरगगणानां हि यक्षराक्षसपक्षिणाम् । 021a
तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥ 021c
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम् । 022a
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ॥ 022c
जघान सचिवैः सार्धं सान्वयं रावणं रणे ॥ 023ac
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम् । 024a
रावमं सगणं हत्वा रामो भूतपतिः पुरा ॥ 024c
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम् । 025a
अभिषिच्य ततो राम अमरत्वं ददौ तदा ॥ 025c
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव । 026a
सबलं स्वपुरं गत्वा धर्मराज्यमपालयत् ॥ 026c
दानवो लवणो नाम मधोः पुत्रो महाबलः । 027a
शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात् ॥ 027c
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः । 028a
राजं चकार विधिवद्रामो धर्मभृतां वरः ॥ 028c
शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान् । 029a
नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा । 029c
न दस्युजं भयं चासीद्रामे राज्यं प्रशसति । 030a
ऋषीणां देवतानां च मनुष्याणां तथैव च ॥ 030c
पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति । 031a
नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित् ॥ 031c
प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति । 032a
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ 032c
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः । 033a
आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः ॥ 033c
दशवर्षसहस्राणि दशवर्षशतानि च । 034a
राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम् ॥ 034c
रामो रामो राम इति प्राजानामभवन्कथाः । 035a
रामभूतं जगदिदं रामे राज्यं प्रशासति ॥ 035c
ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः । 036a
उषित्वा दण्डके कार्यं त्रिदशानां चकार सः ॥ 036c
पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम् । 037a
देवगन्धर्वनागानामरिं स निजघानह ॥ 037c
सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा । 038a
एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः ॥ 038c
रावणं सगणं हत्वा दिवमाक्रमताभिभूः । 039a
इति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः ॥ 039c
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः । 040a
अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः ॥ 040c
पेशलश्च वदान्यश्चलोके बहुमतो नृषु । 041a
स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत् ॥ 041c
वासुदेव इति ख्यातो लोकानां हितकृत्सदा । 042a
वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया ॥ 042c
शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः । 043a
शकटार्जुनरामाणां कीलस्थानान्यसूदयत् ॥ 043c
कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान् । 044a
अयं लोकहितार्थाय प्रादुर्भावो महात्मनः ॥ 044c
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः । 045a
लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते ॥ 045c
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ । 046a
धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया ॥ 046c
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः । 047a
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ॥ 047c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥