अध्यायः 048
दत्तात्रेयनाम्नाऽवतीर्णस्य हरेः कार्तवीर्यार्जुनस्य वरदानादिकम् ॥ 1 ॥
भीष्ण उवाच 001
विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः । 001a
दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः ॥ 001c
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च । 002a
चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते ॥ 002c
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते । 003a
प्रजासु क्षीयमाणासु धर्मे चामूलतां पते ॥ 003c
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै । 004a
चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना ॥ 004c
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम् । 005a
तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन् ॥ 005c
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः । 006a
निर्ममो निरहङ्कारो दीर्घकालमतोषयत् ॥ 006c
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान् । 007a
आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात् ॥ 007c
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता । 008a
वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः ॥ 008c
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः । 009a
सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः ॥ 009c
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् । 010a
शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः ॥ 010c
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः । 011a
अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे ॥ 011c
यस्य नासीन्न भविता न चास्ति सदृशः पुमान् । 012a
इह वा दिवि वा लोके स मे हन्ता भवेदिति ॥ 012c
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि । 013a
स सहस्रं सहस्राणां माहिष्मत्यामवर्धत ॥ 013c
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः । 014a
नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः ॥ 014c
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम् । 015a
गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः ॥ 015c
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः । 016a
इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः ॥ 016c
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः । 017a
यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते ॥ 017c
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम् । 018a
चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत् ॥ 018c
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान् । 019a
यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे ॥ 019c
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत् । 020a
ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये ॥ 020c
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत् । 021a
द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च ॥ 021c
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः । 022a
स —– सः गोपालो विशाम्पते ॥ 022c
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम् । 023a
दत्तात्रेयप्रसादेन एवं राज्यं चकार सः ॥ 023c
एवं बहूनि कर्माणि चक्रे लोकहिताय सः । 024a
दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः । 024c
कथितो भरतश्रेष्ट शृणु भूयो महात्मनः ॥ 024e
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि अष्टचतत्वारिंशोऽध्यायः ॥ 48 ॥