अध्यायः 045

वराहावतारकथनम् ॥ 1 ॥

भीष्म उवाच 001
प्रादुर्भावसहस्राणि समतीतान्यनेकशः । 001a
यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन ॥ 001c
पुरा कमलनाभस्य स्वपतः सागराम्भसि । 002a
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह ॥ 002c
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः । 003a
पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः ॥ 003c
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः । 004a
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ 004c
उज्जहार महीं तोयात्सशैलवनकाननाम् । 005a
वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः ॥ 005c
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः । 006a
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ 006c
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान् । 007a
धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः ॥ 007c
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः । 008a
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः ॥ 008c
बाह्यान्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः । 009a
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान् ॥ 009c
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः । 010a
दक्षिणाहृदयो योगी महाशास्त्रमयो महान् ॥ 010c
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः । 011a
शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः ॥ 011c
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः । 012a
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥ 012c
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः । 013a
मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा ॥ 013c
उज्जहार विषाणेन मार्कण्डेयस्य पश्यतः । 014a
शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया ॥ 014c
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः । 015a
एवं यज्ञवराहेण भूतभव्यभवात्मना ॥ 015c
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा । 016a
निहता दानवाः सर्वे देवदेवेन विष्णुना ॥ 016c
वाराहः कथितो ह्येष नारसिंहमथो शृणु । 017a
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ 017c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥