अध्यायः 044

मधुकैटभवधकथनम् ॥ 1 ॥

भीष्म उवाच 001
अव्यक्तो व्यक्तलिङ्गस्थो य एव भगवान्प्रभुः । 001a
नरनारायणो भूत्वा हरिरासीद्युधिष्ठिर ॥ 001c
ब्रह्मा च शक्रः सूर्यश्च धर्मश्चैव सनातनः । 002a
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः । 002c
प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान् । 002e
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् । 003a
अनेकबहुसाहस्रैर्देवदेवो जगत्पतिः ॥ 003c
ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च । 004a
देवान्सप्तर्षिभिश्चैव शङ्करं च महायशाः ॥ 004c
सनत्कुमारं भगवान्मनुं चैव प्रजापतिम् । 005a
पुरा चक्रे च देवादिः प्रदीप्ताग्निसमप्रभः ॥ 005c
येन चार्णवमध्यस्थौ नष्टेस्थावरजङ्गमे । 006a
नष्टदेवासुरवरे प्रनष्टोरगराक्षसे ॥ 006c
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ । 007a
हतौ भगवता तेन ततो दत्त्वा वरं परम् ॥ 007c
भूमिं बद्ध्वा कृतौ पूर्वावजेयौ द्वौ महाऽसुरौ । 008a
तौ कर्णमलसम्भूतौ विष्णोस्तस्य महात्मनः ॥ 008c
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ । 009a
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ॥ 009c
तौ दिवं छादयित्वा तु ववृधाते महाऽसुरौ । 010a
वायुप्रमाणौ तौ दृष्ट्वा ब्रह्मा पर्यमृशच्छनैः ॥ 010c
एकं मृदुतरं वेत्ति कठिनं वेत्ति चापरम् । 011a
नामनी तु तयोश्चक्रे सविता सलिलोद्भवः ॥ 011c
मृदुस्त्वयं मधुर्नाम कठिनः कैठभः स्वयम् । 012a
तौ दैत्यौ कृतनामानौ चेरतुर्बलगर्वितौ ॥ 012c
तौ पुराऽथ दिवं सर्वां प्राप्तौ राजन्महासुरौ । 013a
प्रच्छाद्याथ दिवं सर्वां चेरतुर्मधुकैठभौ ॥ 013c
सर्वमेकार्णवं लोकं योद्धुकामौ सुनिर्भयौ । 014a
तौ गतावसुरौ दृष्ट्वा ब्रह्मा लोकपितामहः ॥ 014c
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत । 015a
स पद्मात्पद्मनाभस्य नाभिदेशात्समुत्थितात् ॥ 015c
आससाद स्वयं जन्म तत्पङ्कजमपङ्कजम् । 016a
पूजयामास वसतिं ब्रह्मा लोकपितामहः ॥ 016c
तावुभौ जलगर्भस्थौ नारायणचतुर्मुखौ । 017a
बहून्वर्षायुतानप्सु शयानौ न च कम्पितौ ॥ 017c
अथ दीर्घस्य कालस्य तावुभौ मधुकैठभौ । 018a
आजग्मतुस्तौ तं देशं यत्र ब्रह्मा व्यवस्थितः ॥ 018c
तौ दृष्ट्वा लोकनाथस्तु रोषात्संरक्तलोचनः । 019a
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः ॥ 019c
तद्युद्धमभवद्घोरं तयोस्तस्य च भारत । 020a
एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते ॥ 020c
तदभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः । 021a
न च तावसुरौ युद्धे तदा श्रममवापतुः ॥ 021c
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ । 022a
ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम् ॥ 022c
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः । 023a
आवां जहि न यत्रोर्वा सलिलेन परिप्लुता ॥ 023c
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम । 024a
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ ॥ 024c
तयोस्तु वचनं श्रुत्वा तदा नारायणः प्रभुः । 025a
तौ प्रहस्य मृधे दैत्यौ दोर्भ्यां च समपीडयत् ॥ 025c
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठभौ । 026a
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ॥ 026c
मेदो मुमुचतुर्दैत्यौ मज्जमानौ जलोर्मिभिः । 027a
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा ॥ 027c
नारायणश्च भगवानसृजद्विविधाः प्रजाः । 028a
दैत्ययोर्मेदसा छन्ना सर्वा राजन्वसुन्धरा ॥ 028c
तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही । 029a
प्रभावात्पद्मनाभस्य शाश्वती च कृता नृणाम् ॥ 029c

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥