अध्यायः 043
श्रीकृष्णमहिम्नो विस्तरेण कथनाय भीष्मम्प्रति युधिष्ठिरप्रार्थना ॥ 1 ॥ भीष्णेण विष्णोर्जगत्सृष्टिकथाकथनम् ॥ 2 ॥
वैशम्पायन उवाच 001
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः । 001a
ज्ञापनार्थाय सर्वेषां भीष्मं पुनरथाब्रवीत् ॥ 001c
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः । 002a
श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह ॥ 002c
कर्मणामानुपूर्वी च प्रादुर्भावाश्च ये विभोः । 003a
यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह ॥ 003c
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभ । 004a
युधिष्ठिरममित्रघ्नं तस्मिन्राजसमागमे ॥ 004c
समक्षं वासुदेवस्य देवस्येव शतक्रतोः । 005a
कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप ॥ 005c
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके । 006a
इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते ॥ 006c
नाम्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम् । 007a
भीमकर्मा ततो भीष्मो भूयः स इदमब्रवीत् ॥ 007c
कुरूणामपि राजानं युधिष्ठिरमभाषत । 008a
भीष्म उवाच 008
वर्तमानामतीतां च शृणु राजन्युधिष्ठिर ॥ 008c
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम् । 009a
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः ॥ 009c
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः । 010a
सहस्रशीर्षः पुरुषो ध्रुवोऽनन्तः सनातनः ॥ 010c
सहस्रास्यः सहस्राक्षः सहस्रचरणो विभुः । 011a
सहस्रबाहुः सर्वज्ञो देवो नामसहस्रवान् ॥ 011c
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः । 012a
अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः ॥ 012c
असृजत्सलिलं पूर्वं स च नारायणः प्रभुः । 013a
ततस्तु भगवांस्तोये ब्रह्माणमसृजत्स्वयम् ॥ 013c
ब्रह्मा चतुर्मुखो लोकान्सर्वांस्तानसृजत्स्वयम् । 014a
आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः । 014c
पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥ 014e
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे । 015a
आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥ 015c
एकस्मिष्ठति सर्वात्मा स तु नारायणः प्रभुः । 016a
नारायणस्य चाङ्गानि सर्वदैवानि भारत ॥ 016c
शिरस्तस्य दिवं राजन्नाभिः खं चरणौ मही । 017a
अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ ॥ 017c
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः । 018a
अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः ॥ 018c
सर्वं चापि हरौ संस्थं सूत्रे मणिगणा इव । 019a
आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम् ॥ 019c
नारायणो महायोगी सर्वज्ञः परमात्मवान् । 020a
ब्रह्मभूतस्तदात्मानं ब्रह्माणमसृजत्स्वयम् ॥ 020c
सोऽध्यक्षः सर्वभूतानां प्रभूतप्रभवोऽच्युतः । 021a
सनत्कुमारं रुद्रं च सप्तर्षींश्च तपोधनात् ॥ 021c
सर्वमेवासृजद्ब्रह्मा तथा लोकांस्तथा प्रजाः । 022a
ते च तद्व्यसृजंस्तत्र प्राप्तकाले युधिष्ठिर ॥ 022c
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् । 023a
कल्पानां बहुकोट्यश्च समतीतास्तु भारत ॥ 023c
आभूतसम्प्लवाश्चैव बहुधाऽद्धाऽपचक्रमुः । 024a
मन्वन्तरयुगा राजन्सङ्कल्पो भूतसम्प्लवाः ॥ 024c
चक्रवत्परिवर्तन्ते सर्वं विषमुखं जगत् । 025a
सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः ॥ 025c
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः । 026a
ब्रह्मा च सर्वलोकानां लोकस्य च पितामहः ॥ 026c
ततो नारायणो देवः सर्वस्य प्रपितामहः ॥ 026e
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
2-43-25 विषमुखं जलादिकम् ॥