अध्यायः 042

श्रीकृष्णस्याग्रपूजामसहमानानां शिरसि पदमाहितमिति सहदेववचनश्रवणेन शिशुपालस्य कोपोदयः ॥ 1 ॥

'वैशम्पायन उवाच 001
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम् । 001a
क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा ॥ 001c
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम् । 002a
तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु ॥ 002c
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि । 003a
तस्मादभ्यर्चितोऽस्माभिः सर्वे सम्मन्तुमर्हथ ॥ 003c
यो वा न सहते कश्चिद्राज्ञां सबलवाहनः । 004a
क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम् ॥ 004c
एवमुक्तो मया हेतुरुत्तरं प्रब्रवीतु मे । 005a
वैशम्पायन उवाच 005
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् ॥ 005c
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे । 006a
एवमुक्ते सुनीथस्य सहदेवेन केशवे ॥ 006c
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते । 007a
तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान् ॥ 007c
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान् । 008a
स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः ॥ 008c
उवाच वदतां श्रेष्ठ इदं मतिमतां वरः । 009a
सहदेवेन राजानो यदुक्तं केशवं प्रति । 009c
तत्तथेति विजानीध्वं भूयश्चात्र विबोधत ॥ 009e

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥