अध्यायः 041
शिशुपालं सान्त्वयन्तं युधिष्ठिरं निवार्य भीष्णेण श्रीकृष्णमाहात्म्यकथनम् ॥ 1 ॥
वैशम्पायन उवाच 001
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् । 001a
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ 001c
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् । 002a
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ 002c
न हि धर्मं परं जातु नावबुध्येत पार्थिवः । 003a
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा ॥ 003c
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून् । 004a
मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥ 004c
वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् । 005a
न ह्येनं त्वं तथा यथैनं वेद कौरवः ॥ 005c
भीष्म उवाच 006
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् । 006a
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ॥ 006c
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः । 007a
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ॥ 007c
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि । 008a
न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ 008c
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः । 009a
त्रयाणामपि लोकानामर्चनीयो महाभुजः ॥ 009c
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः । 010a
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ 010c
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् । 011a
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी ॥ 011c
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः । 012a
'यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः' । 012c
तेषां कथयतां शौरेरहं गुणवतो गुणान् ॥ 012e
समागतानामश्रौषं बहून्बहुमतान्सताम् । 013a
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः ॥ 013c
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे । 014a
न केवलं वयं कामाच्चेदिराज जनार्दनम् ॥ 014c
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन । 015a
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम् ॥ 015c
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे 016a
न च कश्चिदिहास्माभिः सुबालोप्यपरीक्षितः ॥ 016c
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः । 017a
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥ 017c
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः । 018a
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ॥ 018c
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा । 019a
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते ॥ 019c
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा । 020a
सन्नतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते ॥ 020c
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम् । 021a
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ ॥ 021c
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः । 022a
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः ॥ 022c
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । 023a
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम् ॥ 023c
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः । 024a
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः ॥ 024c
बुद्धिर्मनो महद्वायुस्तेजोऽम्भः खं मही च या । 025a
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ॥ 025c
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये । 026a
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ॥ 026c
'एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः । 027a
अक्षरं क्षररूपेण मानुषत्वमुपागतः' ॥ 027c
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम् । 028a
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ 028c
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् । 029a
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम् ॥ 029c
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः । 030a
सदेवकेषु लोकेषु भगवान्केशवो मुखम् ॥ 030c
अयं तु पुरुषो बालः शिशुपालो न बुध्यते । 031a
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ 031c
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः । 032a
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम् ॥ 032c
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु । 033a
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ॥ 033c
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति । 034a
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति ॥ 034c
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥ 2-41-25 चतुर्विधं जरायुजादि भौतिकम् ॥