अध्यायः 040
शिशुपालेन अनेकधा कृष्णोपालम्भनपूर्वकं सभातो निर्गमनम् ॥ 1 ॥
शिशुपाल उवाच 001
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु । 001a
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥ 001c
नायं युक्तः समाचारः पाण्डवेषु महात्मसु । 002a
यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि ॥ 002c
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः । 003a
अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः ॥ 003c
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया । 004a
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ 004c
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् । 005a
अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ 005c
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः । 006a
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥ 006c
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् । 007a
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ 007c
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन । 008a
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ 008c
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन । 009a
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया ॥ 009c
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे । 010a
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया ॥ 010c
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे । 011a
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन ॥ 011c
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे । 012a
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः ॥ 012c
द्रुमं किम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः । 013a
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे ॥ 013c
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च । 014a
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयाऽर्चितः ॥ 014c
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः । 015a
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत ॥ 015c
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः । 016a
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयाऽर्चितः ॥ 016c
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः । 017a
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ 017c
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः । 018a
किं राजभिरिहानीतैरवमानाय भारत ॥ 018c
वयं तु न भयादस्य कौन्तेयस्य महात्मनः । 019a
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥ 019c
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । 020a
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ 020c
किमन्यदवमनानाद्धे यदेनं राजसंसदि । 021a
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥ 021c
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् । 022a
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत् ॥ 022c
योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा । 023a
जरासन्धं महात्मानमन्यायेन दुरात्मवान् ॥ 023c
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् । 024a
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात् ॥ 024c
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः । 025a
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि ॥ 025c
अथवा कृपणैरेतामुपनीतां जनार्दन । 026a
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥ 026c
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे । 027a
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने ॥ 027c
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते । 028a
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ 028c
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् । 029a
अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥ 029c
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः । 030a
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ 030c
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् । 031a
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ 031c
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥