अध्यायः 038

आगतान्भीष्मादीन्सम्मान्य तत्तदधिकारेषु तेषान्तेषां नियमनम् ॥ 1 ॥ राजसूययागः ॥ 2 ॥

वैशम्पायन उवाच 001
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः । 001a
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥ 001c
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती । 002a
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः ॥ 002c
इदं वः सुमहच्चैव यदिहास्ति धनं मम । 003a
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः ॥ 003c
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः । 004a
युयोज स यथायोगमधिकारेष्वनन्तरम् ॥ 004c
'पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः । 005a
भोजनावेक्षणे चैव युयुत्सुं समयोजयत्' ॥ 005c
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् । 006a
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् । 006c
राज्ञां तु प्रतिपूजार्थं सञ्जयं स न्ययोजयत् । 007a
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती ॥ 007c
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे । 008a
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ॥ 008c
तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् । 009a
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः । 009c
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥ 009e
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् । 010a
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥ 010c
'कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम् ॥ 011a
अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम् । 011c
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये' ॥ 011e
चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् । 012a
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम् ॥ 012c
द्रष्टुकामः सभां चैव धर्मराजं युधिष्ठिरम् । 013a
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् ॥ 013c
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् । 014a
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् ॥ 014c
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् । 015a
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः ॥ 015c
लोकराजविमानैश्च ब्राह्मणावसथैः सह । 016a
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा ॥ 016c
विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः । 017a
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः । 017c
अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥ 017e
ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः । 018a
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ॥ 018c
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् । 019a
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः । 019c
रत्नोपहारसम्पन्नो बभूव स समागमः ॥ 019e
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः । 020a
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ॥ 020c
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः । 021a
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः ॥ 021c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ ॥ समाप्तं च राजसूयपर्व ॥