अध्यायः 035
नकुलस्य पश्चिमदिग्विजयः ॥ 1 ॥
वैशम्पायन उवाच 001
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा । 001a
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः ॥ 001c
निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् । 002a
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥ 002c
सिंहनादेन महता योधानां गर्जितेन च । 003a
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥ 003c
ततो बहु धनं रम्यं गवाढ्यं धनधान्यवत् । 004a
कार्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ॥ 004c
तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः । 005a
मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम् ॥ 005c
शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः । 006a
आक्रोशं चैव राजर्षि तेन युद्धमभून्महत् ॥ 006c
तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः । 007a
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्च कर्पटान् ॥ 007c
तथा मध्यमकेयांश्च वाटधानान्द्विजानथ । 008a
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥ 008c
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः । 009a
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः ॥ 009c
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् । 010a
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥ 010c
कृत्स्नं पञ्चनन्दं चैव तथैवामरपर्वतम् । 011a
उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम् ॥ 011c
द्वारपालं च तरसा वशे चक्रे महाद्युतिः । 012a
रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ॥ 012c
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः । 013a
तत्रस्थः प्रेषयामास वासुदेवाय भारत ॥ 013c
स चास्य गतभी राजन्प्रतिजग्राह शासनम् । 014a
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ॥ 014c
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली । 015a
स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते ॥ 015c
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधाम्पतिः । 016a
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ॥ 016c
पह्लवान्बर्बरांश्चैव किरातान्यवनाञ्शकान् । 017a
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् । 017c
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित् ॥ 017e
करभाणां सहस्राणि कोशं तस्य महात्मनः । 018a
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ॥ 018c
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् । 019a
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥ 019c
एवं विजित्य नकुलो दिशं वरुणपालिताम् । 020a
प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ ॥ 020c
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥