अध्यायः 034
स्मृतिमात्रागतघटोत्कचलङ्काप्रेषणवृत्तान्तस्य विस्तरेण कथनम् ॥ 1 ॥ कृष्णगौरवेण विभीषणेन करदानम् ॥ 2 ॥ विभीषणात्करणाहृतवता घटोत्कचेन सह सहदेवस्य प्रतिनिवर्तनम् ॥ 3 ॥
वैशम्पायन उवाच 001
सहदेवस्ततो राजा मन्त्रिभिः सह भारत । 001a
सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः ॥ 001c
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः । 002a
चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् ॥ 002c
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत । 003a
अतिदीर्घो महाबाहु सर्वाभरणभूषितः ॥ 003c
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । 004a
विचित्रहारकेयूरः किङ्किणीमणिभूषितः ॥ 004c
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः । 005a
ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः ॥ 005c
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली । 006a
बलेन स ययौ तत्र चालयन्निव मेदिनीम् ॥ 006c
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम् । 007a
भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा ॥ 007c
आससाद च माद्रेयं पुलस्त्यं रावणो यथा । 008a
अभिवाद्य ततो राजन्सहदेवं घटोत्कचः ॥ 008c
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत् । 009a
तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः ॥ 009c
तं मेरुशिखराकारमागतं पाण्डुनन्दनः । 010a
पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह ॥ 010c
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात् । 011a
तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम् ॥ 011c
रत्नानि राजसूयार्थं विविधानि बहूनि च । 012a
उपादाय च सर्वाणि प्रत्यागच्छ महाबल ॥ 012c
वैशम्पायन उवाच 013
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः । 013a
तथेत्युक्त्वा महाराज प्रतस्थे दक्षिणां दिशम् ॥ 013c
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः । 014a
लङ्कामभिमुखो राजन्समुद्रं स व्यलोकयत् ॥ 014c
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम् । 015a
शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम् ॥ 015c
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम् ॥ 016a
गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः ॥ 016c
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम् । 017a
प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम् ॥ 017c
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम् । 018a
दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम् ॥ 018c
सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम् । 019a
पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहारथाम् ॥ 019c
नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् । 020a
विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम् ॥ 020c
ददर्श राक्षसव्राताञ्शूलप्रासाधरान्बहून् ॥ 021a
नानावेषधरान्दक्षान्नारीश्च प्रियदर्शनाः ॥ 021c
दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः । 022a
मदरक्तान्तनयनाः पीनश्रोणिपयोधराः ॥ 022c
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः । 023a
आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् ॥ 023c
स द्वारपालमासाद्य वाक्यमेतदुवाच ह । 024a
घटोत्कच उवाच 024
कुरूणामृषभो राजा पाण्डुर्नाम महाबलः ॥ 024c
कनीयांस्तस्य दायादः सहदेव इति श्रुतः । 025a
तेनाहं प्रेषितो दूतः करार्थं कौरवस्य च ॥ 025c
द्रष्टुमिच्छामि राजेन्द्रं त्वं क्षिप्रं मां निवेदय । 026a
वैशम्पायन उवाच 026
तस्य तद्वचनं श्रुत्वा द्वारपालो महीपते ॥ 026c
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः । 027a
प्राञ्जलिः सर्वमाचष्ट सर्वां दूतगिरं तदा ॥ 027c
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः । 028a
उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् ॥ 028c
एवमुक्तस्तु राज्ञा स धर्मज्ञेन महात्मना । 029a
अथ निष्क्रम्य सम्भ्रान्तो द्वार्स्थोहैडिम्बमब्रवीत् ॥ 029c
एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम् । 030a
द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः ॥ 030c
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम् । 031a
ततः कैलाससङ्काशं तप्तकाञ्चनतोरणम् ॥ 031c
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम् । 032a
हर्म्यप्रासादसम्बाधं नानारत्नोपशोभितम् ॥ 032c
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि । 033a
वज्रवैडूर्यजुष्टैश्च स्तम्भैश्च सुमनोहरैः ॥ 033c
नानाध्वजपताकाभिर्युक्तं मणिविचित्रितम् । 034a
चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम् ॥ 034c
स दृष्ट्वा तत्र सर्वं च भैमसेनिर्मनोहरम् । 035a
प्रविशन्नेव हैडिम्बः शुश्राव मधुरस्वरम् ॥ 035c
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् । 036a
दिव्यदुन्दुभिनिर्ह्रादं वादित्रसततं शुभम् ॥ 036c
स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा । 037a
ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् ॥ 037c
स ददर्श महात्मानं द्वार्स्थेन सह भारत । 038a
तं विभीषणमासीनं काञ्चने परमासने ॥ 038c
दिवि भास्करसङ्काशं मुक्तामणिविभूषितम् । 039a
दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् ॥ 039c
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम् । 040a
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् ॥ 040c
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम् । 041a
यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः ॥ 041c
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि । 042a
चामरे व्यजने चाग्र्ये हेमदण्डे महाधने ॥ 042c
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । 043a
अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् ॥ 043c
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेश्वरम् । 044a
राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा ॥ 044c
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः । 045a
प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा ॥ 045c
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः । 046a
पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत् ॥ 046c
विभीषण उवाच 047
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः । 047a
तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै ॥ 047c
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः । 048a
विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक् ॥ 048c
वैशम्पायन उवाच 049
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना । 049a
कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम् ॥ 049c
घटोत्कच उवाच 050
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः । 050a
पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः ॥ 050c
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः । 051a
अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव ॥ 051c
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत् । 052a
गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये ॥ 052c
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः । 053a
भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत ॥ 053c
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे । 054a
नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः ॥ 054c
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः । 055a
महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः ॥ 055c
दशनागसहस्राणां बले तुल्यः स पाण्डवः । 056a
तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः ॥ 056c
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः । 057a
कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले ॥ 057c
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः । 058a
रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः ॥ 058c
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः । 059a
मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे ॥ 059c
तेन तत्खाण्डवं दावं तर्पितं जातवेदसे । 060a
विजित्य तरसा शक्रं युधि देवगणैः सह ॥ 060c
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् । 061a
तेन लब्धा महाराज दुर्लभा दैवतैरपि ॥ 061c
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता । 062a
अर्जुनस्यानुजो राजन्नकुलश्चेति विश्रुतः ॥ 062c
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः । 063a
तस्यानुजो महातेजाः सहदेव इति श्रुतः ॥ 063c
तेनाहं प्रेषितो राजन्कुमारेण समो रणे । 064a
अहं घटोत्कचो नाम भीमसेनसुतो बली ॥ 064c
मम माता महाभागा हिडिम्बा नाम राक्षसी । 065a
पार्थानामुपकारार्थं चरामि पृथिवीमिमाम् ॥ 065c
आसीत्पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः । 066a
राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ॥ 066c
सन्दिदेश च स भ्रातृन्करार्थं सर्वतोदिशम् । 067a
वृष्णिवीरेण सहितः सन्दिदेशानुजान्नृपः ॥ 067c
उदीचीमर्जुनस्तूर्णं गत्वा मेरोरथोत्तमः । 068a
गत्वा शतसहस्राणि योजनानि महाबलः ॥ 068c
जित्वा सर्वान्नृपान्युद्धे हत्वा च तरसा वशी । 069a
स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम् ॥ 069c
अश्वांश्च विविधान्दिव्यान्सर्वानादाय फल्गुनः । 070a
धनं बहुविधं राजन्धर्मपुत्राय वै ददौ ॥ 070c
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात् । 071a
वशे कृत्वा महीपालान्पाण्डवाय धनं ददौ ॥ 071c
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा । 072a
सहदेवो दिशं याम्यां जित्वा सर्वान्महीक्षितः ॥ 072c
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः । 073a
पार्थानां चरितं तुभ्यं सङ्क्षेपात्समुदाहृतम् ॥ 073c
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम् । 074a
पावनं राजसूयं च भगवन्तं हरिं प्रभुम् । 074c
एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि ॥ 074e
वैशम्पायन उवाच 075
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो विभीषणः । 075a
शासनं प्रतिजग्राह धर्मात्मा राक्षसैः सह ॥ 075c
तच्च कृष्णकृतं धीमानित्यमन्यत स प्रभुः । 076a
ततो ददौ विचित्राणि कम्बलानि कुथानि च ॥ 076c
दान्तकाञ्चनपर्यङ्कान्मणिहेमविचित्रितान् । 077a
भूषणानि महार्हाणि प्रवालानि मणींश्च सः ॥ 077c
काञ्चनानि च भाण्डनि कलशानि घटानि च । 078a
कटाहानि विचित्राणि द्रोण्यश्चैव सहस्रशः ॥ 078c
राजतानि च भाण्डानि रत्नगर्भांश्च कुण्डलान् । 079a
हेमपुष्पाणि चान्यानि रुक्ममुख्यानि चापरान् । 079c
शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान् । 080a
यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश ॥ 080c
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः । 081a
मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान् ॥ 081c
चन्दनानि च मुख्यानि वासांसि विविधानि च । 082a
स ददौ सहदेवाय तदा राजा विभीषणः ॥ 082c
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः । 083a
अष्टाशीतिसहस्राणि समदा रक्तलोचनाः ॥ 083c
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः । 084a
विभीषणं च राजानमभिवाद्य कृताञ्जलिः ॥ 084c
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः । 085a
ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह ॥ 085c
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति । 086a
आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् ॥ 086c
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान् । 087a
आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप ॥ 087c
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः । 088a
भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः ॥ 088c
प्रीतिमानभवद्दृष्ट्वा रत्नौघं तं च पाण्डवः । 089a
तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत् ॥ 089c
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे । 090a
न्यवर्तत ततो धीमान्सहदेवो नराधिपः ॥ 090c
एवं विजित्य तरसा सान्त्वेन विजयेन च । 091a
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः ॥ 091c
रत्नसालमुपादाय ययौ सहनिशाचरः । 092a
इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम् ॥ 092c
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः । 093a
प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै ॥ 093c
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून् । 094a
प्रीतिमानभवद्राजा विस्मयं परमं ययौ ॥ 094c
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ । 095a
कोटीसहस्रमधिकं हिरण्यस्य महात्मने ॥ 095c
विविधानि च रत्नानि गोजाविमहिषांस्तथा । 096a
कृतकर्मा सुखं राजन्नुवास जनमेजय ॥ 096c
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥