अध्यायः 032

दक्षिणदिग्विजये शूरसेनादीञ्जितवतः सहदेवस्य माहिष्मत्यां नीलेन सह युद्धम् ॥ 1 ॥ नोलस्य अग्निसाहाय्यकरणकारणकथनम् ॥ 2 ॥ सहदेवस्तुत्या तुष्टस्याग्नेराज्ञया नीलेनार्चितस्य सहदेवस्य विभीषणात्करग् रहणार्थं घटोत्कचप्रेषणम् ॥ 3 ॥

वैशम्पायन उवाच 001
तथैव सहदेवोऽपि धर्मराजेन पूजितः । 001a
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम् ॥ 001c
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः । 002a
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ॥ 002c
अधिराजाधिपं चैव दन्तवक्त्रं महाबलम् । 003a
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत् ॥ 003c
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् । 004a
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ॥ 004c
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा । 005a
तरसैवाजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ॥ 005c
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत् । 006a
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ॥ 006c
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् । 007a
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ॥ 007c
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत । 008a
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ॥ 008c
सेकानपरसेकांश्च व्यजयत्सुमहाबलः । 009a
करं तेभ्य उपादाय रत्नानि विविधानि च ॥ 009c
ततस्तेनैव सहितो नर्मदामभितो ययौ ।' 009e
भगदत्तं महाबाहुं क्षत्रियं नरकात्मजम् । 010a
अर्जुनाय करं दत्तं श्रुत्वा तत्र न्यवर्तत' ॥ 010c
विन्दानुविन्दावावन्त्यौ सैन्येन महतावृतौ । 011a
जिगाय समरे वीरावाश्विनेयः प्रतापवान् ॥ 011c
ततो रत्नान्युपादाय पुरं भोजकटं ययौ । 012a
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत ॥ 012c
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः । 013a
कोसलाधिपतिं चैव तथा वेणातटाधिपम् ॥ 013c
कान्तारकांश्च समरे तथा प्राकोटकान्नृपान् । 014a
नाटकेयांश्च समरे तथा हेरम्बकान्युधि ॥ 014c
मारुधं च विनिर्जित्य रम्यग्राममथो बलात् । 015a
नाचीनानर्बुकांश्चैव राजानश्च महाबलः ॥ 015c
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः । 016a
नाताधिपं च नृपतिं वशे चक्रे महाबलः ॥ 016c
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः । 017a
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः ॥ 017c
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम् । 018a
गुहामासादयामास किष्किन्धां लोकविश्रुताम् ॥ 018c
'पुरा वानरराजेन वालिना चाभिरक्षिताम् । 019a
ततः कोसलराजस्य रामस्यैवानुगेन च । 019c
सुग्रीवेणाभिगुप्तां तां प्रविष्टस्तमथाह्वयत्' ॥ 019e
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च । 020a
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ ॥ 020c
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ । 021a
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः ॥ 021c
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः । 022a
अविघ्नमस्तु कार्याय धर्मराजाय धीमते ॥ 022c
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ ॥ 023a
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ॥ 023c
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् ॥ 024a
ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ॥ 024c
सैन्यक्षयकरं चैव प्राणानां संशयावहम् । 025a
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ॥ 025c
ततो रथा हया नागाः पुरुषाः कवचानि च । 026a
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ॥ 026c
ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः । 027a
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ॥ 027c
जनमेजय उवाच 028
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि । 028a
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ॥ 028c
वैशम्पायन उवाच 029
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः । 029a
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः ॥ 029c
नीलस्य राज्ञो दुहिता बभूवतातीव शोभना । 030a
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा ॥ 030c
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः ॥ 031a
यावच्चारुपुटौष्ठेन वायुना न विधूयते ॥ 031c
ततः स भगवानग्निश्चकमे तां सुदर्शनाम् । 032a
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत् ॥ 032c
ततो ब्राह्मणरूपेण रममाणो यदृच्छया ॥ 033a
चकमे तां वरारोहां कन्यामुत्पललोचनाम् ॥ 033c
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा ॥ 033e
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः । 034a
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम् ॥ 034c
ततः कालेन तां कन्यां तथैव हि तदा नृपः । 035a
प्रददौ विप्ररूपाय वह्रये शिरसा नतः ॥ 035c
प्रतिगृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा । 036a
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः ॥ 036c
वरेण च्छन्दयामास तं नृपं स्विष्टकृत्तमः । 037a
अभयं च स जग्राह स्वसैन्ये वै महीपतिः ॥ 037c
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः । 038a
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना ॥ 038c
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह । 039a
बभूवुरनतिग्राह्या योषितश्छन्दतः किल ॥ 039c
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे । 040a
स्वैरिण्यस्तत्र च राजानस्तत्पुरं भरतर्षभ । 040c
वर्जयन्ति च राजानस्तत्पुरं भरतर्षभ । 041a
भयादग्नेर्महाराज तदाप्रभृति सर्वदा ॥ 041c
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् । 042a
परीतमग्निना राजन्नाकम्पत यथाऽचलः । 042c
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः ॥ 042e
सहदेव उवाच 043
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते । 043a
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक ॥ 043c
पावनात्पावकश्चासि वहनाद्धव्यवाहनः । 044a
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ॥ 044c
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो । 045a
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी ॥ 045c
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः । 046a
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत् ॥ 046c
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे । 047a
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे ॥ 047c
अपां गर्भ महासत्व जातवेदः सुरेश्वर । 048a
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम् ॥ 048c
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि । 049a
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम् ॥ 049c
धूमकेतुः शिखी च त्वं पापहाऽनिलसम्भवः । 050a
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम् ॥ 050c
एवं स्तुतोऽसि भगवन्प्रीतेन शुचिना मया । 051a
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे ॥ 051c
वैशम्पायन उवाच 052
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम् । 052a
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते ॥ 052c
सहदेव उवाच 053
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं यज्ञवाहन । 053a
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् ॥ 053c
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् । 054a
प्रमुखे तस्य सैन्यस्य भीतोद्विग्नस्य भारत ॥ 054c
न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः । 055a
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम् ॥ 055c
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः । 056a
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया ॥ 056c
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च । 057a
मया तु रक्षितव्या पूरियं भरतसत्तम ॥ 057c
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति । 058a
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ॥ 058c
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः । 059a
पूजयामास माद्रेयः पावकं भरतर्षभ ॥ 059c
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा । 060a
पावकस्याज्ञया चैनमर्चयामास पार्थिवः ॥ 060c
सत्कारेण नरव्याघ्रं सहदेवं युधाम्पतिम् । 061a
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च ॥ 061c
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् । 062a
त्रैपुरं स वशे कृत्वा राजानममितौजसम् ॥ 062c
निजग्राह महाबाहुस्तरसा पौरवेश्वरम् । 063a
आकृतिं कौशिकाचार्यं यत्नेन महता ततः ॥ 063c
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा । 064a
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे ॥ 064c
राज्ञे भोजकटस्थाय महामात्राय धीमते । 065a
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै ॥ 065c
च चास्य प्रतिजग्राह ससुतः शासनं तदा । 066a
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च ॥ 066c
ततः स रत्नान्यादाय पुनः प्रायाद्युधाम्पतिः । 067a
ततः शूर्पारकं चैव तालाकटमथापि च ॥ 067c
वशे चक्रे महातेजा दण्डकांश्च महाबलः । 068a
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् ॥ 068c
निषादान्पुरुषादांश्च कर्णप्रावरणानपि । 069a
ये च कालमुखा नाम नरराक्षसयोनयः ॥ 069c
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा । 070a
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा ॥ 070c
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः । 071a
एकपादांश्च पुरुषान्केरलान्वनवासिनः ॥ 071c
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम् । 072a
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ 072c
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः । 073a
अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् ॥ 073c
आटवीं च पुरीं रम्यां यवनानां पुरं तथा । 074a
दूतैरेव वशे चक्रे करं चैनानदापयत् ॥ 074c
'ताम्रपर्णी ततो गत्वा कन्यातीर्थमतीत्य च । 075a
दक्षिणां च दिशं सर्वा विजित्य कुरुनन्दनः ॥ 075c
उत्तरं तीरमासाद्य सागरस्योर्मिमालिनः । 076a
चिन्तयामास कौन्तेयो भ्रातुः पुत्रं घटोत्कचम् ॥ 076c
ततश्चिन्तितमात्रस्तु राक्षसः प्रत्यदृश्यत । 077a
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ॥ 077c
भृगुकच्छात्ततो धीमान्साम्नैवामित्रकर्शनः । 078a
आगम्यतामिति प्राह धर्मराजस्य शासनात् ॥ 078c
स राक्षसपरीवारस्तं प्रणम्याशु संस्थितः । 079a
घटोत्कचं महात्मानं राक्षसं घोरदर्शनम् ॥ 079c
तत्रस्थः प्रेषयामास पौलस्त्याय महात्मने' । 080a
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः ॥ 080c
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् । 081a
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः ॥ 081c
ततः सम्प्रेषयामास रत्नानि विविधानि च । 082a
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च ॥ 082c
वासांसि च महार्हाणि मणींश्चैव महाधनान् ॥ 082e

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥