अध्यायः 031

प्राचीं दिशं निर्जित्य भीमस्य प्रतिनिवर्तनम् ॥ 1 ॥

वैशम्पायन उवाच 001
ततः कुमारविषये श्रेणिमन्तमथाजयत् । 001a
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः ॥ 001c
अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम् । 002a
अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥ 002c
ततो गोपालकक्षं च सोत्तरानपि कोसलान् । 003a
मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः ॥ 003c
ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम् । 004a
सर्वमल्पेन कालेन देशं चक्रे वशं बली ॥ 004c
एवं बहुविधान्देशान्विजिग्ये भरतर्षभः । 005a
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम् ॥ 005c
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः । 006a
स काशिराजं समरे सुबाहुमनिवर्तिनम् ॥ 006c
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः । 007a
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ॥ 007c
युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः । 008a
ततो मत्स्यान्महातेजा मलदांश्च महाबलान् ॥ 008c
अनघानभयांश्चैव पशुभूमिं च सर्वशः । 009a
निवृत्य च महाबाहुर्मदधारं महीधरम् ॥ 009c
सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः । 010a
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥ 010c
भर्गाणामधिपं चैव निषादाधिपतिं तथा । 011a
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥ 011c
ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम् । 012a
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥ 012c
शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम् । 013a
वैदेहकं च राजानं जनकं जगतीपतिम् ॥ 013c
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा । 014a
शकांश्च बर्बराश्चैव अजयच्छद्मपूर्वकम् ॥ 014c
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् । 015a
किरातानामधिपतीनजयत्सप्त पाण्डवः ॥ 015c
ततः सुह्मान्प्रसुह्मांश्च सपक्षानतिवीर्यवान् । 016a
विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली ॥ 016c
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् । 017a
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत् ॥ 017c
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह । 018a
तैरेव सहितैः सर्वैः कर्णमभ्यद्रवद्बली ॥ 018c
स कम्पयन्निव महीं बलेन चतुङ्गिणा । 019a
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥ 019c
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत । 020a
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥ 020c
अथ मोदागिरौ चैव राजानं बलवत्तरम् । 021a
पाण्डवो बाहुवीर्येण निजघान महामृधे ॥ 021c
ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ । 022a
'इदानीं वृष्णिवीरेण न योत्स्यामीति पौण्ड्रकः ॥ 022c
कृष्णस्य भुजसन्त्रासात्करमाशु ददौ नृपः' । 023a
कौशिकीकच्छनिलयं राजानं च महौजसम् ॥ 023c
उभौ बलभृतौ वीरावुभौ तीव्रपराक्रमौ । 024a
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥ 024c
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् । 025a
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा ॥ 025c
सुह्मानामधिपं चैव ये च सागरवासिनः । 026a
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥ 026c
एवं बहुविधान्देशान्विजित्य पवनात्मजः । 027a
वसु तेभ्य उपादाय लौहित्यमगद्बली ॥ 027c
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः । 028a
करमाहारयामास रत्नानि विविधानि च ॥ 028c
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम् । 029a
काञ्चनं रजतं चैव विद्रुमं च महाधनम् ॥ 029c
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा । 030a
अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम् ॥ 030c
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः । 031a
निवेदयामास तदा धर्मराजाय तद्धनम् ॥ 031c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकत्रिंशोऽध्यायः ॥ 32 ॥ 2-31-16 सुह्मा राढाः मागधानभ्यधाद्बली करं प्रयच्छतेत्युक्तवान् । पूर्वमेव पराक्रान्तत्वात् ॥