अध्यायः 030

भीमेन प्राचीदिग्विजये पाञ्चालदेशगमनम् ॥

वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् । 001a
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ 001c
महता बलचक्रेण परराष्ट्रावमर्दिना । 002a
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् । 002c
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः । 003a
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत् ॥ 003c
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः । 004a
'किञ्चित्करं समादाय विदेहानां पुरं ययौ' ॥ 004c
ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः ॥ 004e
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः । 005a
तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम् । 005c
कृतवान्भीमसेनेन महद्युद्धं निरायुधम् । 005e
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः । 006a
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥ 006c
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः । 007a
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥ 007c
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम् । 008a
जिगाय समरे वीरो बलेन बलिनां वरः ॥ 008c
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा । 009a
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥ 009c
ततो दक्षिणमागम्य पुलिन्दनगरं महत् । 010a
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥ 010c
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः । 011a
शिशुपालं महावीर्यमभ्यगाज्जनमेजय ॥ 011c
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् । 012a
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तप ॥ 012c
तौ समेत्य महाराज कुरुचेदिवृषौ तदा । 013a
उभयोरात्मकुलयोः कौशलं पर्यपृच्छताम् ॥ 013c
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते । 014a
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ । 014c
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् । 015a
स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः ॥ 015c
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः । 016a
सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ 016c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥