अध्यायः 029
अर्जुनेन उत्तरदिग्विजये किम्पुरुषादिखण्डजयः ॥ 1 ॥ अर्जुनस्य खाण्डवप्रस्थं प्रति प्रत्यागमनम् ॥ 2 ॥
वैशम्पायन उवाच 001
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान् । 001a
देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ॥ 001c
महता सन्निपातेन क्षत्रियान्तकरेण ह । 002a
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत् ॥ 002c
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् । 003a
पाकशासनिरव्यग्रः सहसैन्यः समासदत् ॥ 003c
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् । 004a
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः ॥ 004c
सरो मानसमासाद्य हाटकानभितः प्रभुः । 005a
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः ॥ 005c
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान् । 006a
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ॥ 006c
'हेमकूटमथासाद्य न्यवसत्फल्गुनस्तदा । 007a
तं हेमकूटं राजेन्द्र समतिक्रम्य पाण्डवः ॥ 007c
हरिवर्षं विवेशाथ सैन्येन महता वृतः । 008a
तत्र पार्थो ददर्शाथ बहूनिह मनोरमान् ॥ 008c
नगरान्सवनांश्चैव नदीश्च विमलोदकाः । 009a
पुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ 009c
तान्सर्वास्तत्र दृष्ट्वाऽथ मुदा युक्तो धनञ्जयः । 010a
वशे चक्रे स रत्नानि लेभे च सुबहूनि च ॥ 010c
ततो निषधमासाद्य गिरिस्थानजयत्प्रभुः । 011a
अथ राजन्नतिक्रम्य निषधं शैलमायतम् ॥ 011c
विवेश मध्यमं वर्षं पार्थो दिव्यमिलावृतम् । 012a
तत्र दिव्योपमान्दिव्यान्पुरुषान्देवदर्शनान् ॥ 012c
अदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयः । 013a
सदनानि च शुभ्राणि नारीश्चाप्सरसन्निभाः ॥ 013c
दृष्ट्वा तानजयद्रम्यान्स तैश्च ददृशे तदा । 014a
जित्वा च तान्महाभागान्करे च विनिवेश्य च ॥ 014c
रत्नान्यादाय दिव्यानि भूषणान्यासनैः सह । 015a
उदीचीमथ राजेन्द्र ययौ पार्थो मुदाऽन्वितः ॥ 015c
स ददर्श ततो मेरुं शिखरीणां प्रभुं महत् । 016a
तं काञ्चनमयं दिव्यं चतुर्वर्णं दुरासदम् ॥ 016c
उन्नतं शतसाहस्रं योजनानां तु सुस्थितम् । 017a
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ॥ 017c
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः । 018a
काञ्चनाभरणं दिव्यदेवगन्धर्वसेवितम् ॥ 018c
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः । 019a
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् ॥ 019c
स्वर्गमावृत्य तिष्ठन्तमुच्छ्रायेण महागिरिम् । 020a
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ॥ 020c
नानाविहगसङ्घैश्च नादितं सुमनोहरैः । 021a
तं दृष्टा फल्गुनो मेरुं प्रीतिमानभवत्तदा ॥ 021c
मेरोरिलावृतं दिव्यं सर्वतः परिमण्डितम् । 022a
मेरोस्तु दक्षिणे पार्श्वे जम्बूर्नाम वनस्पतिः ॥ 022c
नित्यपुष्पफलोपेवः सिद्धचारणसेवितः । 023a
आस्वर्गमुच्छ्रिता राजंस्तस्य शाखा वनस्पतेः ॥ 023c
यस्य नाम्ना त्विदं द्वीपं जन्बूद्वीपमिति स्मृतम् । 024a
तां च जम्बूं ददर्शाथ सव्यसाची परन्तपः ॥ 024c
तौ दृष्ट्वाऽप्रतिमौ लोके जम्बूं मेरुं च संस्थितौ । 025a
प्रतीमानभवद्राजन्सर्वतः स विलोकयन् ॥ 025c
तत्र लेभे ततो जिष्णुः सिद्धैर्दिव्यैश्च चारणैः । 026a
रत्नानि बहुसाहस्रं दत्तान्याभरणानि च ॥ 026c
वासांसि च महार्हाणि तत्र लब्ध्वाऽर्जुनस्तदा । 027a
आमन्त्रयित्वा तान्सर्वान्यज्ञमुद्दिश्य वै गुरोः ॥ 027c
अथादाय बहून्रत्नान्गमनाययोपचक्रमे । 028a
मेरुं प्रदक्षिणीकृत्य पर्वतप्रवरं प्रभुः ॥ 028c
ययौ जम्बूनदीतीरे नदीं श्रेष्ठां विलोकयन् । 029a
स तां मनोरमां दिव्यां जम्बूस्वादुरसावहाम् ॥ 029c
हैमपक्षिगणैर्जुष्टां सौवर्णजलजाकुलाम् । 030a
हैमपङ्कां हैमजलां सौवर्णोज्ज्वलवालुकाम् ॥ 030c
क्वचित्सुपुष्पितैः पूर्णां सौवर्णकुसुमोत्पलैः । 031a
क्वचित्तीररुहैः कीर्णां हैमपुष्पैः सुपुष्पितैः ॥ 031c
तीर्थैश्च रुक्मसोपानैः सर्वतः समलङ्कृताम् । 032a
विमलैर्मणिजालैश्च नृत्तगीतरवैर्युताम् ॥ 032c
दीप्तैर्हेमवितानैश्च समन्ताच्छोभितां शुभाम् । 033a
तथाविधां नदीं दृष्ट्वा पार्थस्तां प्रशशंस ह ॥ 033c
अदृष्टपूर्वां राजेन्द्र दृष्ट्वा हर्षमवाप च । 034a
दर्शनीयां नदीतीरे पुरुषान्सुमनोहरान् ॥ 034c
तान्नदीसलिलाहारान्सदारानमरोपमान् । 035a
नित्यं सुखमुदा युक्तान्सर्वालङ्कारशोभितान् ॥ 035c
तेभ्यो बहूनि रत्नानि तदा लेभे धनञ्जयः । 036a
दिव्यजम्बूफलं हैमं भूषणानि च पेशलम् ॥ 036c
लब्ध्वा तान्दुर्लभान्पार्थः प्रतीचीं प्रययौ दिशम् । 037a
नागानां रक्षितं देशमजयच्च पुनस्ततः ॥ 037c
ततो गत्वा महाराज वारुणीं पाकशासनिः । 038a
गन्धमादनमासाद्य ततस्तानजयत्प्रभुः ॥ 038c
तं गन्धमादनं राजन्नतिक्रम्य ततोऽर्जुनः । 039a
केतुमालं ददर्शाथ वर्षं रत्नसमन्वितम् ॥ 039c
सेवितं देवकल्पैश्च नारीभिः प्रियदर्शनैः । 040a
तं जित्वा चार्जुनो राजन्करे च विनिवेश्य च ॥ 040c
आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः । 041a
पुनश्च परिवृत्याथ मध्यं देशमिलावृतम् ॥ 041c
गत्वा प्राचीं दिशं राजन्सव्यसाची धनञ्जयः । 042a
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ॥ 042c
ये ते कीचकवेणूनां छायां रम्यामुपासते । 043a
कषाञ्झषांश्च नद्यौ तान्प्रघसान्दीप्तवेणिपान् ॥ 043c
पशुपांश्च कुलिन्दांश्च तङ्कणान्परतङ्कणान् । 044a
एतान्समस्ताञ्जित्वा च करे च विनिवेश्य च ॥ 044c
रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो ययौ । 045a
तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः ॥ 045c
भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुचिम् । 046a
तत्र देवोपमान्दिव्यान्पुरुषाञ्शुभसंयुतान् ॥ 046c
जित्वा तान्स्ववशे कृत्वा करे च विनिवेश्य च । 047a
आहृत्य सर्वतो रत्नान्यसङ्ख्यानि ततस्ततः ॥ 047c
नीलं नाम गिरिं गत्वा तत्रस्थानजयत्प्रभुः । 048a
ततो जिष्णुरतिक्रम्य पर्वतं नीलमायतम् ॥ 048c
विवेश रम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः । 049a
तं देशमथ जित्वा स करे च विनिवेश्य च ॥ 049c
अजयच्चापि बीभत्सुर्देशं गुह्यकरक्षितम् । 050a
तत्र लेभे च राजेन्द्र सौवर्णान्मृगपक्षिणः ॥ 050c
अगृह्णाद्यज्ञभूत्यर्थं रमणीयान्मनोहरान् । 051a
अन्यांश्च लब्ध्वा रत्नानि पाण्डवोऽथ महाबलः ॥ 051c
गन्धर्वरक्षितं देशमजयत्सगणं तदा । 052a
तत्र रत्नानि दिव्यानि लब्ध्वा राजन्नथार्जुनः ॥ 052c
वर्षं हिरण्वतं नाम विवेशाथ महीपते । 053a
स तु देशेषु रम्येषु गन्तुं तत्रोपचक्रमे ॥ 053c
मध्ये प्रासादवृन्देषु नक्षत्राणां शशी यथा । 054a
महापथेषु राजेन्द्र सर्वतो यान्तमर्जुनम् ॥ 054c
प्रासादवरशृङ्गस्थाः परया वीर्यशोभया । 055a
ददृशुस्तं स्रियः सर्वाः पार्थमात्मयशस्करम् ॥ 055c
तं कलापधरं शूरं सरथं सधनुःकरम् । 056a
सवर्मं सकिरीटं वै सन्नद्धं सपरिच्छदम् ॥ 056c
सुकुमारं महासत्वं तेजोराशिमनुत्तमम् । 057a
शक्रोपमममित्रघ्नं परवारणवारणम् ॥ 057c
पश्यन्तः स्त्रीगणास्तत्र शक्तिपाणिं स्म मेनिरे । 058a
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ॥ 058c
अस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः । 059a
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा धनञ्जयम् ॥ 059c
तुष्टुवुः पुष्पवृष्टिं च ससृजुस्तस्य मूर्धनि । 060a
दृष्ट्वा ते तु मुदा युक्ताः कौतूहलसमन्विताः ॥ 060c
रत्नैर्विभूषणैश्चैव अभ्यवर्षंश्च पाण्डवम् । 061a
अथ जित्वा समस्तांस्तान्करे च विनिवेश्य च ॥ 061c
मणिहेमप्रवालानि शस्त्राण्याभरणानि च । 062a
एतानि लब्ध्वा पार्थोऽथ शृङ्गवन्तं गिरिं ययौ ॥ 062c
शृङ्गवन्तं च कौरव्यः समतिक्रम्य फल्गुनः । 063a
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः ॥ 063c
विद्याधरगणांश्चैव यक्षेन्द्रांश्च विनिर्जयन् । 064a
तत्र लेभे महात्मा वै वासो दिव्यमनुत्तमम् ॥ 064c
किन्नरद्रुमपत्रांश्च तत्र कृष्णाजिनान्बहून् । 065a
याज्ञीयांस्तांस्तदा दिव्यांस्तत्र लेभे धनञ्जयः' ॥ 065c
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः । 066a
इयेष जेतुं तं देशं पाकशासननन्दनः ॥ 066c
तत एनं महावीर्यं महाकाया महाबलाः । 067a
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ॥ 067c
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्जन । 068a
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ॥ 068c
इदं पुरं यः प्रविशेद्ध्रुवं न स भवेन्नरः । 069a
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ॥ 069c
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते । 070a
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते ॥ 070c
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन । 071a
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ॥ 071c
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि । 072a
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत ॥ 072c
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव । 073a
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ॥ 073c
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः । 074a
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम् ॥ 074c
'नो चेत्कृष्णेन सहितो योधयिष्यामि सायकैः'। 075a
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च । 075c
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम् ॥ 075e
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम् । 076a
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ॥ 076c
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु । 077a
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ॥ 077c
हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि । 078a
मयूरसदृशान्यान्सर्वाननिलरंहसः ॥ 078c
वृतः सुमहता राजन्बलेन चतुरङ्गिणा । 079a
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ॥ 079c
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम् । 080a
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ ॥ 080c
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥