अध्यायः 028
अर्जुनेन उत्तरदिग्विजये नानादेशजयः ॥ 1 ॥
वैशम्पायन उवाच 001
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः । 001a
अनेनैव कृतं सर्वं भविष्यत्यनुजानता ॥ 001c
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः । 002a
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥ 002c
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् । 003a
तथैवोपगिरिं चैव विजिग्ये पुरुषर्षभः ॥ 003c
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः । 004a
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः ॥ 004c
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् । 005a
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान् ॥ 005c
मृदङ्गवरनादेन रथनेमिस्वनेन च । 006a
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥ 006c
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा । 007a
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम् ॥ 007c
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः । 008a
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ 008c
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः । 009a
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ॥ 009c
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ । 010a
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥ 010c
मोदापुरं वामदेवं सुदामानं सुसङ्कुलम् । 011a
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ 011c
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् । 012a
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः ॥ 012c
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति । 013a
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥ 013c
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ॥ 014a
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ॥ 014c
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् । 015a
जिगाय सेनया राजन्पुरं पौरवरक्षितम् ॥ 015c
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः । 016a
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ॥ 016c
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः । 017a
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ 017c
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा । 018a
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ 018c
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः । 019a
उरगावासिनं रम्यं रोचमानं रणेऽजयत् ॥ 019c
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् । 020a
प्राधमद्बलमास्थाय पाकशासनिराहवे ॥ 020c
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः । 021a
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥ 021c
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः । 022a
महता परिमर्देन वशे चक्रे दुरासदान् ॥ 022c
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः । 023a
दरदान्सहकाम्भोजैरजयत्पाकशासनिः ॥ 023c
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः । 024a
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥ 024c
लोहान्परमकाम्भोजानृषिकानुत्तरानपि । 025a
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥ 025c
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः । 026a
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः ॥ 026c
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि । 027a
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ॥ 027c
मयूरसदृशानन्यानुत्तरानपरानपि । 028a
जवनानाशुगांश्चैव करार्थं समुपानयत् ॥ 028c
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम् । 029a
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः ॥ 029c
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥