अध्यायः 027

अर्जुनदिग्विजये भगदत्तादिजयः ॥ 1 ॥

जनमेजय उवाच 001
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय । 001a
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ 001c
वैशम्पायन उवाच 002
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते । 002a
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा ॥ 002c
'अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः । 003a
महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः ॥ 003c
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति । 004a
अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत् ॥ 004c
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत् । 005a
अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप ॥ 005c
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे । 006a
प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः ॥ 006c
तद्भग्नं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा । 007a
वायुनेव घनानीकं तूलीभूतं ययौ दिशः ॥ 007c
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा । 008a
ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः' ॥ 008c
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम् । 009a
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ॥ 009c
'तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति । 010a
स साल्वपुरमासाद्य साल्वराजं धनञ्जयः ॥ 010c
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः । 011a
तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम् ॥ 011c
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः । 012a
तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम् ॥ 012c
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम् । 013a
एतेन सहितो राजन्सव्यसाची परन्तपः' ॥ 013c
विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम् । 014a
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ॥ 014c
अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत् । 015a
तान्सर्वानजयत्पार्थो धर्मराजप्रियेप्सया ॥ 015c
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥ 016ac
तत्र राजा महानासीद्भगदत्तो विशाम्पते । 017a
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥ 017c
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् । 018a
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः ॥ 018c
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् । 019a
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्लमम् ॥ 019c
उपपन्नं महाबाहो त्वयि कौरवनन्दन । 020a
पाकशासनदायादे वीर्यमाहवशोभिनि ॥ 020c
अहं सखा महेन्द्रस्य शक्रादनवरो रणे । 021a
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि ॥ 021c
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते । 022a
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥ 022c
अर्जुन उवाच 023
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः । 023a
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः ॥ 023c
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् । 024a
भवान्पितृसखश्चैव प्रीयमाणो मयापि च । 024c
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥ 024e
भगदत्त उवाच 025
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः । 025a
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥ 025c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥