अध्यायः 026

युधिष्ठिराज्ञया दिग्विजयार्थं निर्गतानामर्जुनादीनां सङ्क्षेपेण दिग्विजयक थनम् ॥

वैशम्पायन उवाच 001
'ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः । 001a
धर्मं धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः । 001c
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः । 002a
संविवर्तयिषुः कामं पावकात्पाकशासनिः' ॥ 002c
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी । 003a
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ 003c
अर्जुन उवाच 004
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । 004a
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ 004c
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम् । 005a
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥ 005c
विजयाय प्रयास्यामि दिशं धनदपालिताम् । 006a
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते ॥ 006c
वैशम्पायन उवाच 007
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः 007a
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥ 007c
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ । 008a
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥ 008c
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि । 009a
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ॥ 009c
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा । 010a
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ॥ 010c
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः । 011a
दिशं धनपतेरिष्टामजयत्पाकशासनिः ॥ 011c
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् । 012a
प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित् ॥ 012c
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः । 013a
आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः ॥ 013c

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

2-26-13 खाण्डवप्रस्थं खाण्डवदाहेन ख्यापितस्थानम् ॥ 13 ॥