अध्यायः 025 जरासन्धवधः ॥ 1 ॥ जरासन्धेन बन्धीकृतानां राज्ञां कृष्णेन मोचनम् ॥ 2 ॥ मोचितै राजभिः कृष्णाय रत्नादिदानम् ॥ 3 ॥ कृष्णानुज्ञया जरासन्धपुत्रेण सहदेवेन पितुरौर्ध्वदैहिककरणम् ॥ 4 ॥ सहदेवं राज्येऽभिषिच्य श्रीकृष्णभीमार्जुनानामिन्द्रप्रस्थगमनम् ॥ 5 ॥ जरासन्धवधश्रवणहृष्टेन युधिष्ठिरेण पूजितस्य कृष्णस्य द्वारकागमनम् ॥ 6 ॥
वैशम्पायन उवाच 001
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् । 001a
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया ॥ 001c
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् । 002a
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव ॥ 002c
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् । 003a
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥ 003c
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः । 004a
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै ॥ 004c
'तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः । 005a
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते ॥ 005c
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः । 006a
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात् ॥ 006c
तदस्य मृत्युर्विहितस्त्वदृते न महाबल । 007a
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम् ॥ 007c
वैशम्पायन उवाच 008
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम् । 008a
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम्' ॥ 008c
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः । 009a
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः ॥ 009c
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ । 010a
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च ॥ 010c
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः । 011a
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ॥ 011c
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः । 012a
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ॥ 012c
भीमसेनस्य नादेन जरासन्धस्य चैव ह । 013a
किन्नु स्याद्धिमवान्भिन्नः किन्नुस्विद्दीर्यते मही ॥ 013c
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात् । 014a
'ततस्तु भगवान्कृष्णो जरासन्धजिघांसया ॥ 014c
भीमसेनं समालोक्य नलं जग्राह पाणिना । 015a
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति ॥ 015c
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः । 016a
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च ॥ 016c
पुनः सन्धाय तु तदा जरासन्धः प्रतापवान् । 017a
भीमेन च समागम्य बाहुयुद्धं चकार ह ॥ 017c
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् । 018a
सर्वलोकक्षयकरं सर्वभूतभयावहम् ॥ 018c
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः । 019a
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया ॥ 019c
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम् । 020a
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह ॥ 020c
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकः । 021a
शवभूतस्तदा राजन्पिण्डीकृत इवाबभौ' ॥ 021c
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् । 022a
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः ॥ 022c
जरासन्धरथं कृष्णो योजयित्वा पताकिनम् । 023a
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥ 023c
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः । 024a
राजानं चक्ररासाद्य मोक्षिता महतो भयात् ॥ 024c
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः । 025a
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥ 025c
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः । 026a
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः ॥ 026c
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः । 027a
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥ 027c
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये । 028a
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ॥ 028c
'एवमेतौ महाबाहू तदा दुष्करकारिणौ । 029a
कृष्णप्रणीतौ लोकेऽस्मिन्रथे को द्रष्टुमर्हति ॥ 029c
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः । 030a
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः' ॥ 030c
तप्तचामीकराभेण किङ्किणीजालमालिना । 031a
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥ 031c
येन शक्रो दानवानां जघान नवतीर्नव । 032a
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ॥ 032c
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा । 033a
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ 033c
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे । 034a
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ 034c
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः । 035a
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥ 035c
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् । 036a
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः ॥ 036c
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः । 037a
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः ॥ 037c
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्यधिकं बभौ । 038a
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ 038c
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते । 039a
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः ॥ 039c
तमास्थाय रथं दिव्यं पर्जन्यसमनिःस्वनम् । 040a
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ 040c
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः । 041a
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम् ॥ 041c
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः । 042a
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः ॥ 042c
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा । 043a
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥ 043c
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् । 044a
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः ॥ 044c
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने । 045a
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् ॥ 045c
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् । 046a
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य वै ॥ 046c
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे । 047a
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन ॥ 047c
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान् । 048a
कृतमित्येव तद्विद्धि नृपैर्ययद्यपि दुष्करम् ॥ 048c
वैशम्पायन उवाच 049
तानुवाच हृषीकेशः समाश्वास्य महामनाः । 049a
युधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति ॥ 049c
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः । 050a
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ॥ 050c
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम । 051a
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम् ॥ 051c
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः । 052a
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥ 052c
जरासन्धात्मजश्चैव सहदेवो महामनाः । 053a
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥ 053c
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः । 054a
सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥ 054c
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा । 055a
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः ॥ 055c
'सहदेव उवाच 056
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन । 056a
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम ॥ 056c
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो । 057a
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन ॥ 057c
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात् । 058a
निर्भयो विचरिष्यामि यथाकामं यथासुखम् ॥ 058c
वैशम्पायन उवाच 059
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष । 059a
प्रहृष्टो देवकीपुत्रः पाण्डवौ च महारथौ ॥ 059c
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन् । 060a
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः ॥ 060c
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत । 061a
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा ॥ 061c
कालागरुसुगन्धैश्च तैलैश्च विविधैरपि । 062a
घृतधाराशतैश्चैव सुमनोभिश्च भारत ॥ 062c
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम् । 063a
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः ॥ 063c
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः । 064a
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥ 064c
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् । 065a
सहदेव उवाच 065
इमे रत्नानि भूरीणि गोजाविमहिषादयः ॥ 065c
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च । 066a
दीयतां धर्मराजाय यथा वा मन्यते भवान् ॥ 066c
वैशम्पायन उवाच 067
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा । 067a
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः ॥ 067c
मागधानां महीपालं जरासन्धात्मजं तदा । 068a
आददे च महार्हाणि रत्नानि पुरुषोत्तमः ॥ 068c
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः । 069a
विवेश मतिमान्राजा पुनर्बार्हद्रथं पुरम् ॥ 069c
पार्थाभ्यां सहितः कृष्णः सर्वैश्च वसुधाधिपैः । 070a
यथावयः समागम्य विससर्ज नराधिपान् ॥ 070c
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः । 071a
आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः । 071c
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः । 072a
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा ॥ 072c
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा । 073a
रत्नान्यादाय भूरीणि ज्वलन्तो रिपुसूदनाः' ॥ 073c
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः । 074a
रत्नान्यादाय भूरीणि प्रययौ पुरुषर्षभः ॥ 074c
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः । 075a
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥ 075c
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः । 076a
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥ 076c
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ । 077a
पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥ 077c
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः । 078a
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥ 078c
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् । 079a
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥ 079c
'हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत । 080a
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः ॥ 080c
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान् । 081a
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः ॥ 081c
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन । 082a
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम ॥ 082c
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः । 083a
वैशम्पायन उवाच 083
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः ॥ 083c
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम् ॥ 084ac
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः । 085a
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः' ॥ 085c
यथावयः समागम्य भ्रातृभिः सह पाण्डवः । 086a
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥ 086c
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः । 087a
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥ 087c
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः । 088a
पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥ 088c
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः । 089a
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥ 089c
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा । 090a
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥ 090c
'पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः । 091a
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः । 091c
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम्' ॥ 091e
तेनैव रथमुख्येन मनसस्तुल्यगामिना । 092a
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥ 092c
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ । 093a
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥ 093c
ततो गते भगवति कृष्णे देवकिनन्दने । 094a
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा ॥ 094c
संवर्धितं यशो भूयः कर्मणा तेन भारत । 095a
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥ 095c
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् । 096a
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम् ॥ ॥ 096c
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥ 2-25-5 अवाप्यते प्राप्तः ॥ 2-25-8 एवमुक्तस्तदा भीमो जरासन्धमिति झ. पाठः ॥ 2-25-15 नलम् इरिणनामकं तृणविशेषम् ॥ 2-25-22 कुलद्वारि गृहद्वारि ॥ 2-25-35 असङ्गो रथस्पर्शहीनः ॥