अध्यायः 024

भीमजरासन्धयोः स्वस्त्ययनपूर्वकं युद्धारम्भः ॥ 1 ॥ श्रीकृष्णप्रोत्साहितस्य भीमस्य जरासन्धवधोद्यमः ॥ 2 ॥

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः । 001a
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥ 001c
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः । 002a
अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥ 002c
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः । 003a
जरासन्धस्ततो राजा भीमसेनेन मागधः ॥ 003c
'धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः । 004a
अर्जुनं वासुदेवं च वजर्यित्वा स मागधः ॥ 004c
मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह' । 005a
आदाय रोचनां माल्यं मङ्गल्यान्यपराणि च ॥ 005c
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च । 006a
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥ 006c
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना । 007a
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् ॥ 007c
अवमुच्य किरीटं स केशान्समनुमृज्य च । 008a
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥ 008c
उवाच मतिमान्राजा भीमं भीमपराक्रमः । 009a
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥ 009c
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः । 010a
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः ॥ 010c
ततः सम्मन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली । 011a
भीमसेनो जरासन्धमाससाद युयुत्सया ॥ 011c
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः । 012a
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ 012c
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् । 013a
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः ॥ 013c
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः । 014a
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं चक्रतुः॥ 014c
चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम् । 015a
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् ॥ 015c
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ । 016a
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥ 016c
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव । 017a
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ॥ 017c
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ । 018a
सिंहाविव सुसङ्क्रुद्धावाकृष्याकृष्य युध्यताम् ॥ 018c
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि । 019a
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः ॥ 019c
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ । 020a
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् ॥ 020c
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः । 021a
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः ॥ 021c
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् । 022a
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् ॥ 022c
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनः । 023a
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः ॥ 023c
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः । 024a
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम् ॥ 024c
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा । 025a
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव ॥ 025c
उभौ परमसंहृष्टौ बलेन बलिनां वरौ । 026a
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ 026c
'शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ । 027a
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव' ॥ 027c
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे । 028a
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ 028c
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः । 029a
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः ॥ 029c
ततः शब्देन महता भर्त्सयन्तौ परस्परम् । 030a
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥ 030c
'ततो भीमं जरासन्धो जघानोरसि मुष्टिना । 031a
भीमोऽपि तं जरासन्धं वक्षस्यभिजघान ह' ॥ 031c
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । 032a
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 032c
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि । 033a
तदा तद्युद्धमभवद्दिनानि दश पञ्च च । 033c
अनाहारं दिवारात्रमविश्रान्तमवर्तत ॥ 033e
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः । 034a
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥ 034c
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः । 035a
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥ 035c
क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे । 036a
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥ 036c
तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः । 037a
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥ 037c
वैशम्पायन उवाच 038
एवमुक्तः स कृष्णेन पाण्डवः परवीरहा । 038a
जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥ 038c
ततस्तमजितं जेतुं जरासन्धं वृकोदरः । 039a
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः ॥ 039c

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥

2-24-6 निर्वृतीर्वेदनानि च दुःखमूर्छयोः काले सुखसञ्ज्ञाकराणि ॥ 2-24-13 कक्षैः दोर्मूलैः ॥ 2-24-16 ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडने पूर्णकुम्भः ॥ 2-24-20 तक्षवन्तौ गात्रसङ्कोचवन्तौ ॥