अध्यायः 022

कृष्णजरासन्धयोर्विवादानन्तरं जरासन्धस्य युद्धोद्यमः ॥ 1 ॥

जरासन्ध उवाच 001
न स्मरामि कदा वैरं कृतं युष्माभिरित्युत । 001a
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥ 001c
वैकृते वा सति कथं मन्यध्वं मामनागसम् । 002a
अरिं वै ब्रूत हे विप्राः सतां समय एष हि ॥ 002c
अर्थधर्मोपघाताद्धि मनः समुपतप्यते । 003a
योऽनागसि प्रसजति क्षत्रियो हि न संशयः ॥ 003c0
अतोऽन्यथा चरल्ँलोके धर्मज्ञः सन्महारथः । 004a
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥ 004c
त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम् । 005a
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः ॥ 005c
तस्य मेऽद्य स्थितस्येह स्वधर्मे नियतात्मनः । 006a
अनागसं प्रजानां च प्रमादादिव जल्पथ ॥ 006c
कृष्ण उवाच 007
कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः । 007a
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि ॥ 007c
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः । 008a
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम् ॥ 008c
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम । 009a
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि ॥ 009c
अस्मांस्तदेनोपगच्छेत्कृतं बार्हद्रथ त्वया । 010a
वयं हिं शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥ 010c
'तस्मादद्योपगच्छामस्तव बार्हद्रथान्तिकम्' । 011a
मनुष्याणां समालम्भो न च दृष्टः कदाचन । 011c
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ॥ 011e
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि । 012a
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः ॥ 012c
यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः । 013a
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात् ॥ 013c
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः । 014a
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः ॥ 014c
नास्ति लोके पुमानन्यः क्षत्रियोष्विति चैव तत् । 015a
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥ 015c
को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप । 016a
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥ 016c
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः । 017a
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ ॥ 017c
स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः । 018a
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान् ॥ 018c
एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः । 019a
येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥ 019c
स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव । 020a
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः ॥ 020c
माऽवमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे । 021a
समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर ॥ 021c
यावदेतदसम्बुद्धं तावदेव भवेत्तव । 022a
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥ 022c
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध । 023a
मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥ 023c
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः । 024a
श्रेयसो ह्यवमत्येह विनेशुः सबला नृपाः ॥ 024c
युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम् । 025a
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ । 025c
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम् ॥ 025e
त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध । 026a
मुञ्च वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम् ॥ 026c
'वैशम्पायन उवाच 027
एतच्छ्रुत्वा जरासन्धः क्रुद्धो वचनमब्रवीत् ॥ 027ac
नाहं कंसः प्रलम्बो वा न बाणो न च मुष्टिकः । 028a
नरको नेन्द्रतपनो न केशी न च पूतना ॥ 028c
न कालयवनो वाऽपि ये त्वया निहता युधि । 029a
त्वं तु गोपकुलोत्पन्नो जातिं वै पौर्विकीं स्मर ॥ 029c
योऽस्मद्भयादतिक्रम्य सागरानूपमाश्रितः । 030a
जन्मभूमिं परित्यज्य मधुरां प्राकृतो यथा ॥ 030c
सोऽधुना कत्थसे शौरे शरदीव यथा घनः । 031a
अद्यानृण्यं करिष्यामि भोजराजस्य धीमतः ॥ 031c
जामातुरौग्रसेनस्य त्वां निहत्याद्य माधव । 032a
चिरकाङ्क्षितो मे सङ्ग्रामस्त्वां हन्तुं ससुहृद्गणम् ॥ 032c
दिष्ट्या मे सफलो यत्नः कृतो देवैः सवासवैः । 033a
क्लीबाविमौ च गोविन्द भीमसेनार्जुनावुभौ ॥ 033c
हिंस्यामि युधि विक्रम्य सिंहः क्षुद्रमृगाविव । 034a
वैशम्पायन उवाच 034
तस्य रोषाभिभूतस्य जरासन्धस्य गर्जतः ॥ 034c
सर्वभूतानि वित्रेसुर्ये तत्रासन्समागताः । 035a
श्रीभगवानुवाच 035
किं गर्जसि जरासन्ध कर्मणा तत्समाचर ॥ 035c
मम निर्देशकर्तृभ्यां पाण्डवाभ्यां नृपाधम । 036a
समात्यं ससुतं चाद्य घातयिष्याम्यहं रणे । 036c
न कथञ्चन जीवन्वै प्रवेक्ष्यसि पुरोत्तमम्' ॥ 036e
जरासन्ध उवाच 037
नाजितान्वै नरपतीनहमादद्मि कांश्चन । 037a
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः ॥ 037c
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् । 038a
विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥ 038c
देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात् । 039a
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् ॥ 039c
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः । 040a
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥ 040c
वैशम्पाय उवाच 041
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् । 041a
अज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः ॥ 041c
स तु सेनापतिं राजा सस्मार भरतर्षभ । 042a
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥ 042c
ययोस्ते नामनी राजन्हंसेति डिबिकेति च । 043a
पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ॥ 043c
तं तु राजन्विभुः शौरी राजानं बलिनां वरम् । 044a
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम् ॥ 044c
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् । 045a
भागमन्यस्य निर्दिष्टमवध्यं मधुभिर्मृधेः ॥ 045c
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः । 046a
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥ 046c

इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि द्वाविंशोऽध्यायः ॥ 2 ॥ 2-22-45 मधुभिर्यादवैः । ष्टं वध्य मत्वा तदाच्युतः इति पाठः ॥