अध्यायः 019 पुनर्यदृच्छागतेन चण्डकौशिकेन जरासन्धपराक्रमादौ कथिते जरासन्धं राज्येऽभिषिच्य तपोवनगतस्य सभार्यस्य बृहद्रथस्य स्वर्गगमनम् ॥ 1 ॥ कृष्णेन कंसवधात् जरासन्धस्य स्वस्मिन्वैरोदयकथनम् ॥ 2 ॥
कृष्ण उवाच 001
कस्यचित्त्वथ कालस्य पुनरेव महातपाः । 001a
मगधेषूपजक्राम भगवांश्चण्डकौशिकः ॥ 001c
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरःसरः । 002a
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ 002c
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत । 003a
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत् ॥ 003c
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः । 004a
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥ 004c
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा । 005a
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥ 005c
अस्य रूपं च सत्वं च बलमूर्जितमेव च । 006a
एष श्रिया समुदितः पुत्रस्तव न संशयः ॥ 006c
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः । 007a
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ॥ 007c
पततो वैनतेयस्य गतिमन्ये यथा खगाः । 008a
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः ॥ 008c
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते । 009a
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥ 009c
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति । 010a
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः ॥ 010c
एनमासाद्य राजानः समृद्धबलवाहनाः । 011a
विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ 011c
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति । 012a
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः ॥ 012c
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः । 013a
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम् ॥ 013c
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः । 014a
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥ 014c
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् । 015a
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः ॥ 015c
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन् । 016a
विसर्जयामास नृपं बृहद्रथमथारिहन् ॥ 016c
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः । 017a
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ॥ 017c
बृहद्रथो नरपतिः परां निर्वृतिमाययौ । 018a
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः । 018c
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत् ॥ 018e
ततो वनस्थे पितरि मातृभ्यां सह भारत । 019a
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ॥ 019c
अथ दीर्घस्य कालस्य तपोवनचरो नृपः । 020a
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥ 020c
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत् । 021a
वरप्रदानमखिलं प्राप्य राज्यमपालयत् ॥ 021c
हते चैव मया कंसे सहंसडिभिके तदा । 022a
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः । 022c
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत ॥ 022e
भ्रामयित्वा शतगुणमेकोनं येन भारत । 023a
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् ॥ 023c
तिष्ठतो मथुरायां वै कृत्स्नस्याद्भुतकर्मणः । 024a
एकोनयोजनशते सा पपात गदा शुभा ॥ 024c
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता । 025a
गदावसानं तत्ख्यातं मथुरायाः समीपतः ॥ 025c
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ । 026a
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ ॥ 026c
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ । 027a
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ 027c
एवमेष तदा वीर बलिभिः कुकुरान्धकैः । 028a
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥ 028c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥ 2-19-16 आह्निकाय महातपाः इति घ. पाठः ॥