अध्यायः 018 राजानम्प्रति स्वस्वरूपमभिधाय जराया अन्तर्धानम् ॥ 1 ॥
राक्षस्युवाच 001
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी । 001a
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥ 001c
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी । 002a
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयम्भुवा ॥ 002c
दानवानां विनाशाय स्थापिता दिव्यरूपिणी । 003a
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम् ॥ 003c
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् । 004a
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो ॥ 004c
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता । 005a
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता ॥ 005c
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप । 006a
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका । 006c
संश्लेषिते मया दैवात्कुमारः समपद्यत । 007a
तव भाग्यान्महाराज हेतुमात्रमहं त्विह ॥ 007c
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् । 008a
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव ॥ 008c
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति । 009a
कृष्ण उवाच 009
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत । 009c
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः ॥ 009e
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा । 010a
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम् ॥ 010c
तस्य नामाकरोच्चैव पितामहसमः पिता । 011a
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् ॥ 011c
सोऽवर्धत महातेजा मागधाधिपतेः सुतः । 012a
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ॥ 012c
'एवं स ववृधे राजन्कुमारः पुष्करेक्षणः । 013a
कालेन महता चापि यौवनस्थो बभूव ह' । 013c
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी ॥ 013e
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥