अध्यायः 017 युधिष्ठिरेण जरासन्धप्रभावप्रश्ने श्रीकृष्णेन तदुपोद्घाततया बृहद्रथराजोपाख्यानकथनारम्भः ॥ 1 ॥ अपुत्रस्य बृहद्रथस्य पत्नीभ्यां सह तपोवनगमनम् ॥ 2 ॥ तत्र चण्डकौशिकमुनिना बृहद्रथाय पुत्रीयाम्रफलदानम् ॥ 3 ॥ प्रविभक्ततत्फलभोजनेन सञ्जातगर्भयोस्तद्भार्ययोः पृथगेकैकशरीरखण्डसम्भवः ॥ 4 ॥ तत्पत्नीभ्यां दासीद्वारा बहिस्त्याजितयोः खण्डयोः जरानाम्न्या राक्षस्या सन्धानाज्जरासन्धसम्भवः ॥ 5 ॥ बालकं गृहीत्वा आगतया जरया सह बृहद्रथस्य संवादः ॥ 6 ॥
वासुदेव उवाच 001
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च । 001a
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ॥ 001c
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा । 002a
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम ॥ 002c
एतावदेव पुरुषैः कार्यं हृदयतोषणम् । 003a
नयेन विधिदृष्टेन यदुपक्रमते परान् ॥ 003c
सुनयस्यानपायस्य संयोगे परमः क्रमः । 004a
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः ॥ 004c
अनयस्यानुपायस्य संयुगे परमः क्षयः । 005a
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः ॥ 005c
ते वयं नयमास्थाय शत्रुदेशसमीपगाः । 006a
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥ 006c
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ॥ 006e
व्यूढानीकैरतिबलैर्न युद्ध्येदरिभिः सह । 007a
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ॥ 007c
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् । 008a
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे ॥ 008c
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः । 009a
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये ॥ 009c
अथवैनं निहत्याजौ शेषेणापि समाहताः । 010a
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ॥ 010c
युधिष्ठिर उवाच 011
कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः । 011a
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा ॥ 011c
कृष्ण उवाच 012
शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः । 012a
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ॥ 012c
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः । 013a
राजा बृहद्रथो नाम मगधाधिपतिर्बली ॥ 013c
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः । 014a
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः ॥ 014c
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः । 015a
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥ 015c
'स्वराज्यं कारयामास मगधेषु गिरिव्रजे' । 016a
तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम । 016c
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥ 016e
स काशिराजस्य सुते यमजे भरतर्षभः । 017a
उपयेमे महावीर्यो रूपद्रविणसंयुते । 017c
तयोश्चकार समयं मिथः स पुरुषर्षभः ॥ 017e
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा । 018a
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः ॥ 018c
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः । 019a
तयोर्मध्यगतश्चापि रराज वसुधाधिपः ॥ 019c
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः । 020a
विषयेषु निमग्नस्य तस्य यौवनमत्यगात् ॥ 020c
न च वंशकरः पुत्रस्तस्याजायत कश्चन । 021a
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः ॥ 021c
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् । 022a
स भार्याभ्यां च सहितो निर्वेदमगमद्भृशम् ॥ 022c
'राज्यं चापि परित्यज्य तपोवनमथाश्रयत् । 023a
'वार्यमाणः प्रकृतिभिर्नृपभक्त्या विशाम्पते' ॥ 023c
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः। 024a
शुश्राव तपसि श्रेष्ठमुदारं चण्डकौशिकम् ॥ 024c
यदृच्छयाऽऽगतं तं तु वृक्षमूलमुपाश्रितम् । 025a
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत् ॥ 025c
'बृहद्रथं च स ऋषिर्यथावच्चाभ्यनन्दत । 026a
'उपविष्टः स तेनाथ अनुज्ञातो महात्मना ॥ 026c
तमपृच्छत्तदा विप्रः किमागमनमित्यथ । 027a
विप्रैरनुगतस्यैव पत्नीभ्यां सहितस्य च ॥ 027c
स उवाच मुनिं राजा भगवन्नास्ति मे सुतः । 028a
अपुत्रस्य तु राज्येन वृद्धत्वे किं प्रयोजनम् ॥ 028c
सोऽहं तपश्चरिष्यामि पत्नीभ्यां सहितो वने । 029a
नाप्रजस्य मुने कीर्तिः स्वधा चैवाक्षया भवेत् । 029c
एवमुक्तः स राज्ञा तु मुनिः कारुण्यमागतः ॥ 029e
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः । 030a
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत ॥ 030c
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः । 031a
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा ॥ 031c
राजोवाच 032
भगवन् राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् । 032a
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ॥ 032c
कृष्ण उवाच 033
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः । 033a
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ॥ 033c
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह । 034a
अवानमशुकादष्टमेकमाम्रफलं किल ॥ 034c
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च । 035a
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम् ॥ 035c
उवाच च महाप्राज्ञस्तं राजानं महामुनिः । 036a
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप ॥ 036c
'एष ते तनयो राजन्मा तपेह तपोवने । 037a
प्रजाः पालय धर्मेण एव धर्मो महीक्षिताम् ॥ 037c
यजस्व विविधैर्यज्ञैरिन्द्रं तर्पय चेन्दुना । 038a
पुत्रं राज्ये प्रतिष्ठाप्य तत आश्रममाव्रज ॥ 038c
अष्टौ वरान्प्रयच्छामि तव पुत्रस्य पार्थिव । 039a
ब्रह्मण्यत्वमजेयत्वं युद्धेषु च तथा मतिः ॥ 039c
प्रियातिथेयतां चैव दीनानामन्ववेक्षणम् । 040a
तथा बलं च सुमहल्लोके कीर्तिं च शाश्वतीम् ॥ 040c
अनुरागं प्रजानां चेत्येवमष्टौ वरान्नृप । 041a
गच्छ त्वं कृतकृत्योऽसि निवर्तस्व जनाधिप' ॥ 041c
अनुज्ञातः स ऋषिणा पत्नीभ्यां सहितो नृपः । 042a
पौरैरनुगतश्चापि विवेश स्वपुरं ततः ॥ 042c
यथासमयमाज्ञाय तदा स नृपसत्तमः । 043a
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ॥ 043c
मुनेश्च बहुमानेन कालस्य च विपर्ययात् । 044a
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे । 044c
भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः ॥ 044e
तयोः समभवद्गर्भः फलप्राशनसम्भवः । 045a
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह ॥ 045c
अथ काले महाप्राज्ञ यथासमयमागते । 046a
प्रजायेतामुभे राजञ्शरीरशकले तदा ॥ 046c
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे । 047a
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम् ॥ 047c
उद्विग्ने सह सम्मन्त्र्य ते भगिन्यौ तदाऽबले । 048a
सजीवे प्राणिशकले तत्यजाते सुदुःखिते ॥ 048c
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे । 049a
निर्गम्यान्तः पुरद्वारात्समुत्सृज्याभिजग्मतुः ॥ 049c
'दुकूलाभ्यां सुसञ्छन्ने पाण्डराभ्यामुभे तदा । 050a
अज्ञाते कस्यचित्ते तु जहतुस्ते चतुष्पथे ॥ 050c
ततो विविशतुर्धात्र्यौ पुनरन्तः पुरं तदा । 051a
कथयामासतुरुभे देवीभ्यां तु पृथक्पृथक्' ॥ 051c
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी । 052a
जग्राह मनुजव्याघ्र मांसशोणितभोजना ॥ 052c
कर्तुकामा सुखवहे शकले सा तु राक्षसी । 053a
संयोजयामास तदा विधानबलचोदिता ॥ 053c
ते समानीतमात्रे तु शकले पुरुषर्षभ । 054a
एकमूर्तिधरो वीरः कुमारः समपद्यत ॥ 054c
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना । 055a
न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ॥ 055c
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः । 056a
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः ॥ 056c
तेन शब्देन सम्भ्रान्तः सहसाऽन्तः पुरे जनः । 057a
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ॥ 057c
ते चाबले परिम्लाने पयः पूर्णपयोधरे । 058a
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ॥ 058c
ते च दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् । 059a
तं च बालं सुबलिनं चिन्तयामास राक्षसी ॥ 059c
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः । 060a
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः ॥ 060c
सा तं बालमुपादाय मेघलेखेव भास्करम् । 061a
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम् ॥ 061c
बृहद्रथ सुतस्तेऽयं मया दत्तः प्रगृह्यताम् । 062a
तव पत्नीद्वये जातो द्विजातिवरशासनात् । 062c
धात्रीजनपरित्यक्तो मयाऽयं परिरक्षितः ॥ 062e
कृष्ण उवाच 063
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे । 063a
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम् ॥ 063c
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च । 064a
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम् ॥ 064c
कात्वं कमलगर्भाभे मम पुत्रप्रदायिनी । 065a
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे ॥ ॥ 065c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
2-17-4 क्रमः उपक्रमः ॥
2-17-9 तत्क्षये बलक्षयः इति पाठः ॥
2-17-34 अवानमशुष्कं सरसमिति यावत् । अमारुतमनाविद्धम् इति घ.पाठः ॥
2-17-46 प्रजायेतां सुषुवतुः ॥
2-17-47 स्फिक् कट्या अधोभागः ॥
2-17-53 सुखवहे एकीकृतयोर्वहनं हि सुखेन भवतीति प्रसिद्धम् ॥
2-17-54 समानीतमात्रे संयोजितमात्रे ॥
2-17-64 अराक्षसीं वेषतः ॥