अध्यायः 016 युधिष्ठिर्जुनयोर्भाषणम् ॥ 1 ॥

युधिष्ठिर उवाच 001
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः । 001a
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात् ॥ 001c
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् । 002a
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ॥ 002c
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् । 003a
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम् ॥ 003c
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते । 004a
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम ॥ 004c
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम । 005a
सन्न्यासं रोचये साधु कार्यस्यास्य जनार्दन । 005c
प्रतिहन्ति मनो मेऽद्य राजसूयो दुराहरः ॥ 005e
वैशम्पायन उवाच 006
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी । 006a
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत ॥ 006c
अर्जुन उवाच 007
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् । 007a
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् । 007c
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः । 008a
बलेन सदृशं नास्ति वीर्यं तु मम रोचते । 008c
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति । 009a
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते ॥ 009c
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये । 010a
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेद्रिपून् ॥ 010c
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति । 011a
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ॥ 011c
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते ॥ 012a
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ॥ 013ac
दैन्यं यथा बलवति तथा मोहो बलान्विते । 014a
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ॥ 014c
जरासन्धिविनाशं च राज्ञां च परिरक्षणम् । 015a
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत् ॥ 015c
अनारम्भे हि नियतो भवेदगुणनिश्चयः । 016a
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ॥ 016c
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् । 017a
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान् ॥ 017c

इति श्रीमन्महाभारते सभापर्वणि षोडशोऽध्यायः ॥ 16 ॥