अध्यायः 015

राजसूयविषये श्रीकृष्णयुधिष्ठिरभीमानां संवादः ॥ 1 ॥

युधिष्ठिर उवाच 001
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति । 001a
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ॥ 001c
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः । 002a
न च साम्राज्यमाप्तास्ते सम्रादशब्दो हि कृच्छ्रभाक् । 002c
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति । 003a
परेण समवेतस्तु यः प्रशस्यः स पूज्यते ॥ 003c
विशाला बहुला भूमिर्बहुरत्नसमाचिता । 004a
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ॥ 004c
शममेव परं मन्ये शमात्क्षेमं भवेन्मम । 005a
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ॥ 005c
एवमेते हि जानन्ति कुले जाता मनस्विनः । 006a
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन । 006c
वयं चैव महाभाग जरासन्धभयात्तदा । 007a
शङ्किताः स्म महाभाग दौरात्म्यात्तस्य चानघ ॥ 007c
अहं हि तव दुर्धर्ष भुजवीर्याश्रयः प्रभो । 008a
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते ॥ 008c
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव । 009a
अर्जुनाद्वा महाबाहो हन्तुं शक्यो नवेति वै । 009c
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः ॥ 009e
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव । 010a
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः ॥ 010c
भीम उवाच 011
अनारम्भपरो राजा वल्मीक इव सीदति । 011a
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ॥ 011c
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् । 012a
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान् ॥ 012c
कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये । 013a
मागधं साधयिष्याम इष्टिं त्रय इवाग्रयः ॥ 013c
'त्वद्बुद्धिबलमाश्रित्य सर्वं प्राप्स्यति धर्मराद । 014a
जयोऽस्माकं हि गोविन्द येषां नाथो भवान्सदा' ॥ 014c
कृष्ण उवाच 015
अर्थानारभते बालो नानुबन्धमवेक्षते । 015a
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ॥ 015c
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः । 016a
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः ॥ 016c
ऋद्ध्या मरुत्तस्तान्पशञ्च सम्राजस्त्वनुशुश्रुम । 017a
'सर्वान्वंश्याननुमृशन्नैते सन्ति युगे युगे' ॥ 017c
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर । 018a
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः ॥ 018c
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ । 019a
न चैनं प्रत्यत्युद्ध्यन्त कुलान्येकशतं नृपाः ॥ 019c
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः ॥ 020ac
रत्नभाजो हि राजानो जरासन्धमुपासते । 021a
न च तुष्यति तेनापि बाल्यादनयमास्थितः ॥ 021c
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात् । 022a
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ॥ 022c
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् । 023a
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ॥ 023c
'तण्डुलप्रस्थके राजा कपर्दिनमुपासते' । 024a
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे । 024c
पशूनामिव का प्रीतिर्जीविते भरतर्षभ । 024e
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः । 025a
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम् ॥ 025c
षडशीतिः समानीताः शेषा राजंश्चतुर्दश । 026a
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते ॥ 026c
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् । 027a
जयेद्यश्च जरासन्धं स सम्राण्णियतं भवेत् ॥ 027c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि पञ्चदशोऽध्यायः ॥ 25 ॥ 2-15-18 युधिष्ठिर धर्मार्थनयलक्षणैः सहिता प्राप्तिः पालनं निग्राह्यलक्षणं साम्राज्यं च तेऽस्ति ॥ 2-15-19 बार्हद्रथं जरासन्धं तं विद्धि इति क. घ.पाठः ॥ 2-15-22 बलात्प्रधानपुरुषः जरासन्धः पुरुषतः पुरुषेषु अभागः अस्वीकृतः ॥