अध्यायः 014 जरासन्धशौर्यकथनादिरूपं श्रीकृष्णवाक्यम् ॥

कृष्ण उवाच 001
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि । 001a
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ॥ 001c
जामदग्न्येन रामेण क्षत्रं यदवशेषितम् । 002a
तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् ॥ 002c
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप । 003a
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ ॥ 003c
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते । 004a
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि ॥ 004c
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः । 005a
तानि चैकशतं विद्धि कुलानि भरतर्षभ ॥ 005c
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान् । 006a
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम् ॥ 006c
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते । 007a
इदानीमेव वै राजञ्जरासन्धो महीपतिः ॥ 007c
अभिभूय श्रियं तेषां कुलानामभिषेचितः । 008a
स्थितो मूर्ध्नि नरेन्द्राणामोजसाऽऽक्रम्य सर्वशः ॥ 008c
सोऽवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत । 009a
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत् ॥ 009c
स साम्राज्यं महाराज प्राप्तो भवति योगतः । 010a
तं स राजा जरासन्धं संश्रित्य किल सर्वशः ॥ 010c
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् । 011a
तमेव च महाराज शिष्यवत्समुपस्थितः ॥ 011c
वक्रः करूषाधिपतिर्मायायोधी महाबलः । 012a
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ ॥ 012c
जरासन्धं महावीर्यं तौ हंसडिम्बिकावुभौ । 013a
वक्रदन्तः करूषस्य करभो मेघवाहनः । 013c
मूर्ध्ना दिव्यं मणिं बिभ्रद्यमद्भुतमणिं विदुः ॥ 013e
मुरुं च नरकं चैव शास्ति यो यवनाधिपः । 014a
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ॥ 014c
भगदत्तो महाराज वृद्धस्तव पितुः सखा । 015a
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः ॥ 015c
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि । 016a
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः ॥ 016c
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः । 017a
स ते सन्नतिमानेकः स्नेहतः शत्रुसूदनः ॥ 017c
जरासन्धं गतस्त्वेव पुरा यो न मया हतः । 018a
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः ॥ 018c
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् । 019a
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ॥ 019c
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः । 020a
पौण्ड्रको वासुदेवेति योसौ लोकेऽभिविश्रुतः ॥ 020c
चतुर्थभाङ्महाराज भोज इन्द्रसखो बली । 021a
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान् ॥ 021c
भ्राता तस्याकृतिः शूरो जामदग्न्यसमोऽभवत् । 022a
स भक्तो मागधं राजा भीष्मकः परवीरहा ॥ 022c
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः । 023a
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ॥ 023c
न कुलं सबलं राजन्नभ्यजानात्तथाऽऽत्मनः । 024a
पश्यमानो यशो दीप्तं जरासन्धमुपस्थितः ॥ 024c
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो । 025a
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः ॥ 025c
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः । 026a
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह ॥ 026c
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह । 027a
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोसलाः ॥ 027c
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः । 028a
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ॥ 028c
तथैव सर्वपञ्चाला जरासन्धभयार्दिताः । 029a
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ॥ 029c
' अग्रतो ह्यस्य पाञ्चालास्तत्रानीके महात्मनः । 030a
अनिर्गते सारबले मागधेभ्यो गिरिव्रजात् ॥ 030c
उग्रसेनसुतः कंसः पुरा निर्जित्य बान्धवान्' । 031a
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ॥ 031c
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले । 032a
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः ॥ 032c
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् । 033a
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना ॥ 033c
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता । 034a
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा ॥ 034c
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् । 035a
हतौ कंससुनामानौ मया रामेण चाप्युत ॥ 035c
'हत्वा कंसं तथैवादौ जरासन्धस्य बिभ्यतः । 036a
मया रामेण चान्यत्र ज्ञातयः परिपालितः' ॥ 036c
भये तु समतिक्रान्ते जरासन्धे समुद्यते । 037a
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ॥ 037c
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः । 038a
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् ॥ 038c
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ । 039a
नामभ्यां हंसडिबिकावशस्त्रनिधनावुभौ ॥ 039c
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् । 040a
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ 040c
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः । 041a
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ॥ 041c
'अष्टादश मया तस्य सङ्ग्रामा रोमहर्षणाः । 042a
दत्ता न च हतो राजञ्जरासन्धो महाबलः' ॥ 042c
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः । 043a
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे ॥ 043c
हतो हंस इति प्रोक्तमथ केनापि भारत । 044a
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥ 044c
विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे । 045a
इत्येतां मतिमास्थाय डिबिको निधनं गतः ॥ 045c
तथा तु डिबिकं श्रुत्वा हंसः परपुरञ्जयः । 046a
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत ॥ 046c
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ । 047a
पुरं शून्येन मनसा प्रययौ भरतर्षभ ॥ 047c
ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे । 048a
पुनरानन्दिनः सर्वे मधुरायां वसामहे ॥ 048c
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना । 049a
कंसभार्या जरासन्धं दुहिता मागधं नृपम् । 049c
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता ॥ 049e
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम । 050a
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् ॥ 050c
संस्मरन्तो विमनसो व्यपयाता नराधिप । 051a
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम् ॥ 051c
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः । 052a
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः ॥ 052c
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् । 053a
ततो निवेशं तस्यां च कृतवन्तो वयं नृप ॥ 053c
तथैव दुर्गसंस्कारं देवैरपि दुरासदम् । 054a
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः ॥ 054c
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः । 055a
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च ॥ 055c
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् । 056a
एवं वयं जरासन्धादभितः कृतकिल्बिषाः ॥ 056c
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः । 057a
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि ॥ 057c
योजनान्ते शतद्वारं वीरविक्रमतोरणम् । 058a
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ॥ 058c
अष्टादश सहस्राणि भ्रातॄणां सन्ति नः कले । 059a
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः ॥ 059c
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः । 060a
अहं च रौहिणेयश्च साम्बः प्रद्युम्न एव च ॥ 060c
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे । 061a
कृतवर्मा ह्यनाधृष्टिः समीकः समितिञ्जयः ॥ 061c
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः । 062a
'प्रद्युम्नश्चानिरुद्धश्च भानुरक्रूरसारणौ ॥ 062c
निशठश्च गदश्चैव सप्त चैते महारथाः । 063a
विक्रमो झिल्लिबभ्रू च उद्धवोऽथ विदूरथः ॥ 063c
वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः । 064a
प्रसेनजिच्च यमलो राजराजगुणान्वितः ॥ 064c
स्यमन्तको मणिर्यस्य रुक्मं निस्रुवते बहु । 065a
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ॥ 065c
वज्रसंहनना वीरा वीर्यवन्तो महाबलाः । 066a
स्मरन्तो मध्यमं देशं वृष्णिवीरा गतज्वराः ॥ 066c
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप । 067a
सर्वसम्पद्गुणैः सिद्धे तस्मिन्नेवं व्यवस्थिते ॥ 067c
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत । 068a
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम् ॥ 068c
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम् । 069a
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च ॥ 069c
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम् । 070a
तथैते गौरवेणैव न योत्स्यन्ति नराधिपाः ॥ 070c
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा । 071a
योत्स्यते स परामर्षी दिव्यास्त्रबलगर्वितः' ॥ 071c
न तु शक्यं जरासन्धे जीवमाने महाबले 072a
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम ॥ 072c
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे । 073a
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः ॥ 073c
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः ।' 074a
अभिषिक्तः स राजन्यैः सहस्रैरुत चाष्टभिः' । 074c
महादेवं महात्मानमुमापतिमरिन्दम ॥ 074e
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः । 075a
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम ॥ 075c
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् । 076a
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ॥ 076c
वयं चैव महाराज जरासन्धभयात्तदा । 077a
मधुरा सम्परित्यज्य गता द्वारवतीं पुरीम् ॥ 077c
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि । 078a
यतस्व तेषां मोक्षाय जरासन्धवधाय च ॥ 078c
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन । 079a
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ॥ 079c
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ । 080a
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ॥ 080c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥ 2-14-4 भुवि ये श्रेणिबद्धा राजानः ये चान्ये क्षत्रियाः तान् इक्ष्वाकुवंशस्य प्रकृतिं प्रजां परिचक्षते ॥ 2-14-56 माधवाः मधुवंश्याः ॥