अध्यायः 013
मन्त्रिभिः सह सम्मन्त्र्य कृतराजसूयकरणनिश्चयस्य युधिष्ठिरस्य श्रीकृष्णम्प्रति दूतप्रेषणम् ॥ 1 ॥ दूतेन सह इन्द्रप्रस्थमागतं श्रीकृष्णम्प्रति युधिष्ठिरोक्तिः ॥ 2 ॥
वैशम्पायन उवाच 001
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः । 001a
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत ॥ 001c
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम् । 002a
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ॥ 002c
हरिश्चन्द्रं च राजर्षि रोचमानं विशेषतः । 003a
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ॥ 003c
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः । 004a
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ॥ 004c
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा । 005a
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत् ॥ 005c
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन् । 006a
किं हितं सर्वलोकानां भवेदिति मनो दधे ॥ 006c
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः । 007a
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ॥ 007c
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ । 008a
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम् ॥ 008c
एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः । 009a
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ॥ 009c
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात् । 010a
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः ॥ 010c
'बलीनां सम्यगुत्थानान्नकुलस्य यशस्विनः' । 011a
धीमतः सहदेवस्य धर्माणामनुशासनात् ॥ 011c
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः । 012a
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा ॥ 012c
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा । 013a
वार्धुषी यज्ञसत्वानि गोरक्षं कर्षणं वणिक् ॥ 013c
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा । 014a
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्च्छनम् ॥ 014c
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे । 015a
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम् ॥ 015c
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम् । 016a
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम् ॥ 016c
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः । 017a
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे ॥ 017c
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः । 018a
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट् ॥ 018c
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः । 019a
यत्र राजन्दश दिशः पितृतो मातृतस्तथा । 019c
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥ 019e
स मन्त्रिणः समानाय्य भ्रातृंश्च वदतां वरः । 020a
राजसूयं प्रति तदा पुनः पुनरपृच्छत ॥ 020c
ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा । 021a
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ॥ 021c
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति । 022a
तेन राजाऽपि तं कृत्स्नं सम्राड्गुणमभीप्सति ॥ 022c
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन । 023a
राजसूयस्य समयं मन्यन्ते सुहृदस्तव ॥ 023c
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा । 024a
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः ॥ 024c
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् । 025a
अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ॥ 025c
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् । 026a
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि ॥ 026c
अविचार्य महाराज राजसूये मनः कुरु । 027a
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् ॥ 027c
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते । 028a
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा ॥ 028c
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् । 029a
'स प्रशस्तक्रियारम्भः परीक्षामुपचक्रमे ॥ 029c
वैशम्पायन उवाच 030
चतुर्भिर्भीमसेनाद्यैर्भ्रातृभिः सहितो हितम् । 030a
एवमुक्तस्तथा पार्थो धर्म एव मनो दधे ॥ 030c
स राजसूयं राजेन्द्रः कुरूणामृषभः क्रतुम् । 031a
जगाम मनसा सद्य आहरिष्यन्युधिष्ठिरः ॥ 031c
भूयस्त्वद्भुतवीर्योपि धर्ममेवानुपालयन् ' । 032a
पुनः पुनर्मनो दध्रे राजसूयाय भारत ॥ 032c
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः । 033a
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः ॥ 033c
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित् । 034a
'विराटद्रुपदाभ्यां च सात्यकेन च धीमता ॥ 034c
युधामन्यूत्तमौजोभ्यां सौभद्रेण च धीमता । 035a
द्रौपदेयैः परं शूरैर्मन्त्रयामास संवृतः ॥ 035c
युधिष्ठिर उवाच' 036
भवन्तो राजसूयस्य सम्राडर्हस्य सुक्रतोः । 036a
श्रद्दधानस्य वदत ममावाप्तिः कथं भवेत् ॥ 036c
वैशम्पायन उवाच 037
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन । 037a
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम् ॥ 037c
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् । 038a
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा ॥ 038c
मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् । 039a
स तु राजा महाप्राज्ञः पुनरेवात्मनाऽऽत्मवान् ॥ 039c
भूयो विममृशे पार्थो लोकानां हितकाम्यया । 040a
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ ॥ 040c
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति । 041a
नहि यज्ञसमारम्भः केवलात्मविनिश्चयात् ॥ 041c
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् । 042a
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् ॥ 042c
सर्वलोकात्परं मत्वा जगाम मनसा हरिम् । 043a
अप्रमेयं महाबाहुं कामाज्जातमजं नृषु ॥ 043c
पाण्डवस्तर्कयामास कर्मभिर्देवसम्मतैः । 044a
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् ॥ 044c
न स किञ्चिन्न विषहेदिति कृष्णममन्यत । 045a
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥ 045c
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा । 046a
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् ॥ 046c
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् । 047a
'स प्रभुं प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ॥ 047c
दूत उवाच 048
धर्मराजो हृषीकेश धौम्यव्यासादिभिः सह । 048a
पाञ्चालमात्स्यसहितैर्भ्रातृभिश्चैव सर्वशः ॥ 048c
त्वद्दर्शनं महाबाहो काङ्क्षते स युधिष्ठिरः ॥ 049ac
वैशम्पायन उवाच 050
इन्द्रसेनवचः श्रुत्वा यादवप्रवरो बली' । 050a
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः ॥ 050c
'आमन्त्र्य राजन्सुहृदो वसुदेवं च माधवः' । 051a
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा । 051c
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः ॥ 051e
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः । 052a
स गृहे पितृवद्भ्रात्रा धर्मराजेन पूजितः ॥ 052c
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः । 053a
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा ॥ 053c
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः । 054a
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् । 054c
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम् ॥ 054e
युधिष्ठिर उवाच 055
प्रार्थितो राजसूयो मे न चासौ केवलेप्सया । 055a
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः ॥ 055c
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते । 056a
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ॥ 056c
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे । 057a
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ॥ 057c
केचिद्धि सौहृदा देवे न दोषं परिचक्षते । 058a
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ॥ 058c
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् । 059a
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ॥ 059c
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च । 060a
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि ॥ 060c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥ 2-13-13 वार्धुषी वृद्ध्युपजीविका । यज्ञसत्वानि क्रतूनां सामर्थ्यानि सद्यः पुष्कलफलप्रदत्वादिविषयाणि ॥ अनुकर्षं दारिद्र्याद्राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन धारणम् । निष्कर्षं करार्थं प्रजापीडनम् । अवर्षणं चातिवर्षम् इति क. पाठः । मूर्च्छनं वृद्धिः ॥ 2-13-17 नैगमैर्वणिग्भिः सह आसन्निति शेषः । इतरे नृपा वणिग्वद्येन करदीकृता इत्यर्थः । तत्र तस्मिन् विषयो देशः ॥ 2-13-18 लोभजैर्विमोहोत्थैराजसैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि ववृधे वृद्धिमानभूत् ॥ 2-13-22 येन कारेण वारुणं गुणं वृद्धिम् । तेन कारणेना ॥ 2-13-52 भ्रात्रा पितृष्वसृजेन ॥ 2-13-54 क्षणिनं सावसरम् । कल्पं समर्थम् ॥