अध्यायः 012 इन्द्रसभास्थहरिश्चन्द्रचरिते युधिष्ठिरेण पृष्टे तत्कथाप्रसङ्गेन नारदकृता राजसूयप्रशंसा ॥ 1 ॥ युधिष्ठरम्प्रति पाण्डुसन्देशकथनपूर्वकं नारदस्य गमनम् ॥ 2 ॥
युधिष्ठिर उवाच 001
प्रायशो राजलोकस्ते कथितो वदतां वर । 001a
वैवस्वतसभायां तु यथा वदसि मे प्रभो ॥ 001c
वरुणस्य सभायां तु नागास्ते कथिता विभो । 002a
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा ॥ 002c
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा । 003a
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥ 003c
पितामहसभायां तु कथितास्ते महर्षयः । 004a
सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव ह ॥ 004c
शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने । 005a
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥ 005c
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने । 006a
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः ॥ 006c
किं कर्म तेनाचरितं तपो वा नियतव्रत । 007a
येनासौ सह शक्रेण स्पर्धते सुमहायशाः ॥ 007c
पितृलोकगतश्चैव त्वया विप्र पिता मम । 008a
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः ॥ 008c
किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत । 009a
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे ॥ 009c
नारद उवाच 010
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो । 010a
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥ 010c
' इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः । 011a
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः ॥ 011c
तस्य सत्यवती नाम पत्नी केकयवंशजा । 012a
तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन ॥ 012c
सा च काले महाभागा राजन्मासं प्रविश्य च । 013a
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् । 013c
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः' ॥ 014a
स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम् । 014c
तस्य सर्वे महीपालाः शासनावनताः स्थिताः । 015a
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्॥ 015c
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर । 016a
स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम् ॥ 016c
आजहार महाराज राजसूयं महाक्रतुम् । 017a
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया ॥ 017c
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् । 018a
'समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान् ॥ 018c
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः । 019a
राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे' ॥ 019c
प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः । 020a
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम् ॥ 020c
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा । 021a
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ॥ 021c
भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः । 022a
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् । 022c
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् । 023a
एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते । 023c
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ॥ 023e
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् । 024a
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप ॥ 024c
ये चान्ये च महीपाला राजसूयं महाक्रतुम् । 025a
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ । 025c
ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः । 026a
ते तत्सदनमासाद्य मोन्दते भरतर्षभ ॥ 026c
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् । 027a
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः ॥ 027c
पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन । 028a
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥ 028c
विज्ञाय मानुषं लोकमायान्तं मां नराधिप । 029a
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम् ॥ 029c
समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे । 030a
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ॥ 030c
त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै । 031a
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि ॥ 031c
एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम् । 032a
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम् ॥ 032c
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव । 033a
गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम् ॥ 033c
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् । 034a
छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥ 034c
युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम् । 035a
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥ 035c
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर । 036a
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ॥ 036c
भव एधस्व मोदस्व धनैस्तर्पय च द्विजान् । 037a
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि । 037c
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥ 037e
वैशम्पायन उवाच 038
एवमाख्याय पार्थेभ्यो नारदो जनमेजय । 038a
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥ 038c
गते तु नारदे पार्थो भ्रातृभिः सह कौरवः । 039a
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः ॥ ॥ 039c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वादशोऽध्यायः ॥ 12 ॥