अध्यायः 010 कुबेरसभावर्णनम् ॥ 1 ॥

नारद उवाच 001
सभा वैश्रवणी राजञ्शतयोजनमायता । 001a
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ॥ 001c
तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा । 002a
शशिप्रभा प्रावरणा कैलासशिखरोपमा ॥ 002c
गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते । 003a
दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता ॥ 003c
महारत्नवती चित्रा दिव्यगन्धा मनोरमा । 004a
सिताभ्रशिखराकारा प्लवमानेव दृश्यते । 004c
दिव्या हेममयै रङ्गैर्विद्युद्भिरिव चित्रिता । 005a
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः ॥ 005c
स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः । 006a
'सह पत्न्या महाराज ऋद्ध्या सह विराजते । 006c
सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः' । 007a
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते । 007c
दिव्यपादोपधाने च निषण्णः परमासने ॥ 007e
मन्दाराणामुदाराणां वनानि परिलोडयन् । 008a
सौगन्धीकवनानां च गन्धं गन्धवहो वहन् ॥ 008c
नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च । 009a
शीतो हृदयसंह्लादी वायुस्तमुपसेवते ॥ 009c
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः । 010a
दिव्यतानैर्महाराज गायन्तिस्म सभागताः ॥ 010c
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता । 011a
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ॥ 011c
विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा॥ 012ac
वर्गा च सौरभेयी च समीची बुद्बुदा लता । 013a
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः ॥ 013c
उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः । 014a
अनिशं दिव्यवादित्रैर्नृत्तगीतैश्च सा सभा ॥ 014c
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः । 015a
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे ॥ 015c
माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः । 016a
कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः ॥ 016c
कुस्तुम्बरुः पिशाचश्च गजकर्णो विशालकः । 017a
वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः ॥ 017c
हंसचूडः शिखावर्तो हेमनेत्रो विभीषणः । 018a
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः ॥ 018c
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत । 019a
एते चान्ये च बहवो यक्षाः शतसहस्रशः ॥ 019c
सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः । 020a
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः ॥ 020c
ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे । 021a
क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः ॥ 021c
उपासते महात्मानं तस्यां धनदमीश्वरम् । 022a
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः ॥ 022c
उमापतिः पशुपतिः शूलभृद्भगनेत्रहा । 023a
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा ॥ 023c
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः । 024a
मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः ॥ 024c
नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः । 025a
वृतः सखायमन्वास्ते सदैव धनदं नृप ॥ 025c
प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः । 026a
गन्धर्वाणां च पतयो विश्वावसुर्हहा हुहूः ॥ 026c
तुम्बुरुः पर्वतश्चैव शैलूषश्च तथाऽपरः । 027a
चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च ॥ 027c
एते चान्ये च गन्धर्वा धनेश्वरमुपासते । 028a
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः ॥ 028c
उपाचरति तत्र स्म धनानामीश्वरं प्रभुम् । 029a
किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम् ॥ 029c
आसते चापि राजानो भगदत्तपुरोगमाः । 030a
द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥ 030c
राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः । 031a
सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः ॥ 031c
विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् । 032a
हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः ॥ 032c
मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः । 033a
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ ॥ 033c
एते चान्ये च बहवः सर्वे मेरुपुरोगमाः । 034a
उपासते महात्मानं धनानामीश्वरं प्रभुम् ॥ 034c
नन्दीश्वरश्च भगवान्महाकालस्तथैव च । 035a
शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा ॥ 035c
काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः । 036a
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः ॥ 036c
धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते । 037a
पारिषदैः परिवृतमुपायान्तं महेश्वरम् ॥ 037c
सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम् । 038a
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम् ॥ 038c
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः । 039a
आस्ते कदाचिद्भगवान्भवो धनपतेः सखा ॥ 039c
निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ । 040a
सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम् ॥ 040c
सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा । 041a
पितामहसभां राजन्कीर्तयिष्ये निबोध ताम् ॥ 041c

इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि दशमोऽध्यायः ॥ 10 ॥ 2-10-5 रङ्गैरितिच्छेदः ॥ 2-10-39 आस्ते इत्यावृत्त्या योजनीयम् । यदा भवः कदाचित्कुबेरसभामध्यास्ते तदा कुबेरोऽपि भवादनुज्ञां प्राप्य तन्निकटे आस्ते उपविशति ॥