अध्यायः 009
वरुणसभावर्णनम् ॥ 1 ॥
नारद उवाच 001
युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा । 001a
प्रमाणेन यथा याम्या शुभप्राकारतोरणा ॥ 001c
अन्तः सलिलमास्थाय विहिता विश्वकर्मणा । 002a
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ॥ 002c
नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि । 003a
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः ॥ 003c
तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः । 004a
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ॥ 004c
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा । 005a
वेश्मासनवती रम्या सिता वरुणपालिता ॥ 005c
यस्यामास्ते स वरुणो वारुण्या च समन्वितः । 006a
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ॥ 006c
'द्वितीयेन तु नाम्ना वै गौरीति भुवि विश्रुता । 007a
पत्न्या सवरुणो देवः प्रमोदति सुखी सुखम्' ॥ 007c
स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः । 008a
आदित्यास्तत्र वरुणं जलेश्वरमुपासते ॥ 008c
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा । 009a
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ॥ 009c
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ । 010a
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ ॥ 010c
पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते । 011a
प्रह्रादो मुषिकादश्च तथैव जनमेजयः ॥ 011c
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः । 012a
' अर्थो धर्मश्च कामश्च वसुः कपिल एव च ॥ 012c
अनन्तश्च महानागो यं दृष्ट्वा जलजेश्वरः । 013a
अभ्यर्चयति सत्कारैरासनेन च तं विभुः ॥ 013c
वासुकिप्रमुखाश्चैव सर्वे प्राञ्जलयः स्थिताः । 014a
अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च ॥ 014c
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर ।' 015a
वैनतेयश्च गरुडो ये चास्य परिचारिणः' ॥ 015c
उपासते महात्मानं वरुणं विगतक्लमाः ॥ 015e
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः । 016a
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः ॥ 016c
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः । 017a
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥ 017c
विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः । 018a
दशग्रीवश्च वाली च मेघवासा दशावरः ॥ 018c
टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः । 019a
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ॥ 019c
स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः । 020a
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ 020c
ते तस्यां वरुणं देवं धर्मपाशधरं सदा । 021a
उपासते महात्मानं सर्वे सुचरितव्रताः ॥ 021c
तथा समुद्राश्चत्वारो नदी भागीरथी च सा । 022a
कालिन्दी विदिशा वेणा नर्दमा वेगवाहिनी ॥ 022c
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती । 023a
इरावती वितस्ता च सिन्धुर्देवनदी तथा ॥ 023c
गोदावरी कृष्णवेणी कावेरी च सरिद्वरा । 024a
किम्पुना च विशल्या च तथा वैतरणी नदी ॥ 024c
तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः । 025a
चर्मण्वती तथा चैव पर्णाशा च महानदी ॥ 025c
सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा । 026a
करतोया तथाऽऽत्रेयी लौहित्यश्च महानदः ॥ 026c
लङ्घती गोमती चैव सन्ध्या त्रिस्रोतसी तथा । 027a
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः ॥ 027c
सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च । 028a
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर॥ 028c
पल्वलानि तटाकानि देहवन्त्यथ भारत । 029a
दिशस्तथा मही चैव तथा सर्वे महीधराः ॥ 029c
उपासते महात्मानं सर्वे जलचरास्तथा । 030a
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः ॥ 030c
स्तुवन्तो वरुणं तस्यां सर्व एव समासते । 031a
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः ॥ 031c
कथयन्तः सुमधुराः कथास्तत्र समासते । 032a
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते ॥ 032c
पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च । 033a
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ॥ 033c
एषा मया सम्पतता वारुणी भरतर्षभ । 034a
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ॥ 034c
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि नवमोऽध्यायः ॥ 9 ॥ 2-9-34 सम्पतता समागच्छता ॥